पृष्ठम्:अद्भुतसागरः.djvu/१०८

विकिस्रोतः तः
पुटमेतत् सुपुष्टितम्
८९
राहोरद्भुतावर्त्तः ।

 यः कर्मसाक्षी लोकानां धर्मो महिषवाहनः ॥
 यमश्चन्द्रोपरागोत्थां पीडामत्र व्यपोहतु ।
 रक्षोगणाधिपः साक्षात् प्रभयाऽनलसप्रभः ॥
 खड्गव्यग्रोऽतिभीमश्च रक्षःपीडां व्यपोहतु ।
 नागपाशधरो देवः सदा मकरवाहनः ॥
 स जलाधिपतिश्चन्द्रग्रहपीडां व्यपोहतु ।
 प्राणरूपेण यो लोकान् पाति कृष्णमृगाश्रयः ॥
 वायुश्चन्द्रोपरागोत्थां ग्रहपीडां व्यपोहतु ।
 योऽसौ निधिपतिर्देवः खड्गशूलगदाधरः ॥
 चन्द्रोपरागकलुषं धनदोऽत्र व्यपोहतु ।
 योऽसाविन्दुप्रभो रुद्रः पीनाकी वृषवाहनः ॥
 चन्द्रोपरागपापानि स नाशयतु शङ्करः ।
 त्रैलोक्ये यानि भूतानि स्थावराणि चराणि च ॥
 ब्रह्मविष्णवर्कयुक्तानि तानि पापं दहन्तु च ।
 एवमामन्त्रितैः कुम्भैरभिषिक्तो गुणान्वितैः ॥
 ऋग्यजुःसाममन्त्रैश्च शुक्लमाल्यानुलेपनैः ।
 पूजयेद्वस्त्रगोदातैर्ब्राह्मणानिष्टदेवताम् ॥
 एतानेव ततो मत्रान् विलिख्य कनकान्वितान् ।
 वस्त्रे पट्टेऽथ वा[१] भूर्जे पञ्चरत्नसमन्विते ।
 यजमानस्य शिरसि निदध्युस्ते नरोत्तमाः ।
 ततोऽतिवाहयेद्वेलामुपरागानुगामिनीम् ॥
 प्राङ्मुखः पूजयित्वा तु संपश्यन्निष्टदेवताम् ।


  1. वर्णपट्टेऽथ वा पट्टे इति च. ।