पूर्वेण निरोधेनेत्यर्थः । निरोधनान्तरस्याभिधानात् ।
वराहसंहितायां तु ।
जिह्वावलेढि परितस्तिमिरनुदो मण्डलं स यदि लेहः ।
प्रमुदितसमस्तभूप[१]प्रभूततोया च तत्र मही ॥
पराशरः ।
अर्धत्रिभागपादग्रहणं ग्रसनप्रख्यातं नृपतिप्रच्युतये ।
वराहसंहितायाम् ।
ग्रसनमिति यदा त्र्यंशः पादो वा गृह्यतेऽथ वाऽप्यर्धम् ।
स्फीतनृपतिवित्तहानिः पीडा च स्फीतदेशानाम् ॥
तत्रैव।
पर्यन्तेषु गृहीत्वा मध्ये पिण्डीकृतं तमस्तिष्ठेत् ।
स निरोधो विज्ञेयः प्रमोदकृत् सर्वभूतानाम् ॥
पराशरेण त्वन्यथा निरोधोऽभिहितः ।
सर्वमण्डलधूमावरणं निरोधस्तदारोग्यक्षेमसुभिक्षलक्षणम्।
पराशरः ।
उन्मर्दनं चिरमर्केन्दुसकलमण्डलाक्रमणं प्रजाविद्रवकरम् ।
काश्यपस्तु ।
अवमर्दे पापमर्दात् स्वयं संक्षुभ्यते नृपः ।
वराहसंहितायाम् ।
अवमर्दनमिति निःशेषमेव संछाद्य यदि चिरं तिष्ठेत् ।
हन्यात् प्रधानभूपान् प्रधानदेशाँश्च तिमिरमयः ॥
भार्गवीये ।
सर्वं संग्रह्य च ज्योतिश्चिरमन्तर्दधाति च ।
हन्ति स्फीतानि राष्ट्राणि प्रधानं च नराधिपम् ||
पराशरः ।
मण्डलमध्ये ग्रहणावर्त्तनमारोहणं नरपतिविक्षोभः प्रजानाशकरः ।
- ↑ प्रमुदितसमस्तभूता इति अ. ।