सामवेदः/कौथुमीया/संहिता/ऊहगानम्/दशरात्रपर्व/विंशः ५/पार्थम्

विकिस्रोतः तः
पार्थम्.

पवस्व वाजसातये पवित्रे धारया सुतः ।
इन्द्राय सोम विष्णवे देवेभ्यो मधुमत्तरः ।। १०१६ ।।
त्वां रिहन्ति धीतयो हरिं पवित्रे अद्रुहः ।
वत्सं जातं न मातरः पवमान विधर्मणि ।। १०१७ ।।
त्वं द्यां च महिव्रत पृथिवीं चाति जभ्रिषे ।
प्रति द्रापिममुञ्चथाः पवमान महित्वना ।। १०१८ ।।

१४. पार्थम् ।। पृथुर्वैन्यः । अनुष्टुप् । पवमानस्सोमः।

ओऽ३होऽ३होइ । पव । स्ववाऽ२ । जसाताऽ२३४याइ ॥ पवि । त्रेधाऽ२ । रायासूऽ२३४ताः॥ इन्द्रा। यसोऽ२। मवाइष्णाऽ२३४वाइ॥ देवे। भ्योमाऽ२३ । धुमाऽ३त्ताऽ५"राऽ६५६ः ॥श्रीः॥ तुवाम् । रिहाऽ२ । तिधाइताऽ२३४याः ॥ हरिम् । पवाऽ२इ । त्रेअद्रूऽ२३४हाः ॥ वत्सम् । जाताऽ२म् । नमाताऽ२३४राः ॥ पंव। मानाऽ२३ । विधाऽ३र्माऽ५"णाऽ६५६इ ॥ श्रीः ॥ तुवम् । द्याञ्चाऽ२। महिव्राऽ२३४ता ॥ पृथि । वीञ्चाऽ२ । तिजभ्रीऽ२३४षाइ ॥ प्रति । द्रापाऽ२इम् । अमुञ्चाऽ२३४थाः ॥ ओऽ३होऽ३होइ । पव। मानाऽ२३ । महाऽ३इत्वाऽ५"नाऽ६५६ ॥

दी. १३. उत् . न. मा. २४. री. ॥९४॥

[सम्पाद्यताम्]

टिप्पणी