सामवेदः/कौथुमीया/संहिता/आरण्यकगेयः/प्रपाठकः ६/शुक्रियपर्व/आदित्यव्रतम्(चित्रं)

विकिस्रोतः तः
आदित्यव्रतम्
आदित्यव्रतम्

चित्रं देवानामुदगादनीकं चक्षुर्मित्रस्य वरुणस्याग्नेः ।
आप्रा द्यावापृथिवी अन्तरिक्षं सूर्य आत्मा जगतस्तस्थुषश्च ॥ ६२९
अक्षन्नमीमदन्त ह्यव प्रिया अधूषत ।
अस्तोषत स्वभानवो विप्रा नविष्ठया मती योजा न्विन्द्र ते हरी ॥ ४१५
अन्तश्चरति रोचनास्य प्राणादपानती ।
व्यख्यन्महिषो दिवं ॥ १३७७

आदित्यव्रतम्।

(१५७-१५९।१)

उवीऽ२उवि । उविहोऽ२उवि । (द्वेत्रिः) । इतीऽ२इति । इतिहोऽ२इति । ( द्वेत्रिः) । असीऽ२सि । असिहोऽ२असि । (द्वेत्रिः) । अरूरुचोदिवंपृथिवीम् । असीऽ२असि । असिहोऽ२असि । ( त्रीणित्रिः) । पतिर । स्यपामोषधीनाऽ३म् । ओइ । पताइराऽ२३४सी । (चत्वारित्रिः) । चाइ। त्रंदेवानामुदगादनीकम् ॥ वाइश्वेषान्देवानाꣳ समिदजस्रंज्योतिराततऽ२म् । होइ । ( द्वेत्रिः) । आयुर्यन् । (त्रिः) । अवः । (त्रिः) । चक्षुर्मित्रस्यवरुणस्याग्नेः ॥ सुवःसꣳसर्पसꣳसार्पा । ( त्रिः )। जनावनꣳसुवाऽ२ःसुवः । जनाऽ२वनाऽ२म् । सुवाऽ२ःसुवः । ( त्रीणित्रिः) । आप्राद्यावापृथिवीआन्तरीऽ२३क्षाऽ३म् । सृपिप्रसृपीऐही( त्रिः) । अस्तोषतस्वभानवाऐही । विप्रानविष्ठयामताऐही । ग्रावाणोबर्हिषिप्रियाऐही । इन्द्रस्यरꣳहियंबृहादैही । इन्द्राऽ२ । स्यराऽ२ । हियाऽ२म् । बृहदिन्द्रस्यरꣳहियंबृहादैही । ( चत्वारित्रिः) । सूर्यआत्माजगतस्तास्थूषाऽ२३श्चाऽ३ । अन्तश्चरतिरोचनाऐही । (त्रिः )। अस्यप्राणादपानताऐही। (त्रिः) । व्यख्यन्महिषोदिवामैही । ( त्रिः)। प्रोएतिप्रोएति । ( त्रिः)। प्रोऽ । एति । (द्वेद्विः) । प्रोऽ२३ । एताऽ२३४औहोवा ॥ एऽ३ । देवादिवाज्योतीऽ२३४५:॥

(दी० १६३ । प० १०७ । मा० ८९ )१(ठो । २७०)


[सम्पाद्यताम्]

टिप्पणी

एतद्वै देवा एतं पुरुषमुपधाय तमेतादृशमेवापश्यन्यथैतच्छुष्कं फलकम् । तेऽब्रुवन् । उप तज्जानीत यथास्मिन्पुरुषे वीर्यं दधामेति तेऽब्रुवंश्चेतयध्वमिति चितिमिच्छतेति वाव तदब्रुवंस्तदिच्छत यथास्मिन्पुरुषे वीर्यं दधामेति । ते चेतयमानाः ।एतत्सामापश्यंस्तदगायंस्तदस्मिन्वीर्यमदधुस्तथैवास्मिन्नयमेतद्दधाति पुरुषे गायति पुरुषे तद्वीर्यं दधाति चित्रे गायति सर्वाणि हि चित्राण्यग्निस्तमुपधाय न पुरस्तात्परीयान्नेन्मायमग्निर्हिनसदिति -माश ७.४.१.२४