सामवेदः/कौथुमीया/संहिता/ग्रामगेयः/प्रपाठकः ०८/पूरीषम (प्रयोरि)

विकिस्रोतः तः
पूरीषम्

(३१२।१) ॥ पूरीषम् । अथर्वा बृहतीन्द्रः॥

प्र꣥यो꣯रिरिक्षओ꣯जसाऽ६ए꣥॥ दि꣢व꣡:सदो꣰꣯ऽ२भ्यस्प꣡रि । नत्वावि꣪व्या । औ꣣꣯हो꣭ऽ३वा꣢ । चा꣡ । रजः । औ꣢꣯हो꣭ऽ३वा꣢इ । द्रपा꣡꣯र्थिवाम् ॥ अतिवाऽ२३इश्वा꣢꣱म् ॥ वा꣡वक्षि꣢थ । इ꣡डाऽ२३भा꣢ऽ३४३ । ओ꣡ऽ२३४५ इ ॥डा॥

( दी० ६ । प० १३ । मा० ८ )३४ (गै । ५२६ )

प्र यो रिरिक्ष ओजसा दिवः सदोभ्यस्परि ।
न त्वा विव्याच रज इन्द्र पार्थिवमति विश्वं ववक्षिथ ॥ ३१२

(३१२।१) ॥ पूरीषम् । अथर्वा बृहतीन्द्रः॥

प्रयोरिरिक्षओजसाऽ६ए॥ दिवःसदोऽ२भ्यस्परि । नत्वाविव्या । औहोऽ३वा । चा । रजः । औहोऽ३वाइ । द्रपार्थिवाम् ॥ अतिवाऽ२३इश्वाम् ॥ वावक्षिथ । इडाऽ२३भाऽ३४३ । ओऽ२३४५ इ ॥डा॥

( दी० ६ । प० १३ । मा० ८ )३४ (गै । ५२६ )

एकादश अष्टमः खण्डः ॥ ८ ॥ दशतिः ॥२॥ ॥ इति बार्हतमैन्द्रम् ॥

[सम्पाद्यताम्]

टिप्पणी