सामवेदः/कौथुमीया/संहिता/ग्रामगेयः/प्रपाठकः ०२/वासुक्रं(प्रभूर्ज)

विकिस्रोतः तः
वासुक्रम्

(७४|१) ॥ वासुक्रं शुक्रं वा वसुक्रस्त्रिष्टुबग्निः॥
प्र꣤भू꣥꣯र्ज꣤यं꣥ता꣤म् ॥ म꣣हा꣢ऽ३४३०वि꣢पो꣣꣯धा꣥꣯म् । मू꣢꣯रै꣡र꣯मू꣯रंपुराद꣪र्माऽ२३णा꣢म् ॥ न꣣या꣢ऽ३४३०तं꣢गी꣣꣯र्भिः꣥ । व꣣ना꣢ऽ३४३धि꣢यं꣣धाः꣥꣯॥ ह꣤रि꣥श्मश्रुन्नव꣤र्म꣥णाऽ६॥ हाउवा ॥ ध꣢नाऽ३र्ची꣡ऽ२꣡३꣡४꣡५꣡म् ॥ (डे । १२१ )

( दी० ८ । प० ८ मा० ७) ११



(७४|१) ॥ वासुक्रं शुक्रं वा वसुक्रस्त्रिष्टुबग्निः॥
प्रभूर्जयंताम् ॥ महाऽ३४३०विपोधाम् । मूरैरमूरंपुरादर्माऽ२३णाम् ॥ नयाऽ३४३०तंगीर्भिः । वनाऽ३४३धियंधाः॥ हरिश्मश्रुन्नवर्मणाऽ६॥ हाउवा ॥ धनाऽ३र्चीऽ२३४५म् ॥ (डे । १२१ )

( दी० ८ । प० ८ मा० ७) ११

प्र भूर्जयन्तं महां विपोधां मूरैरमूरं पुरां दर्माणम्।
नयन्तं गीर्भिर्वना धियं धा हरिश्मश्रुं न वर्मणा धनर्चिम्॥ ७४ ॥ ऋ. १०.४६.५


[सम्पाद्यताम्]

टिप्पणी