विकिस्रोतः:भारतीय-विकिसोर्स्-पाठशुद्धिस्पर्धा आगष्ट् २०२१

विकिस्रोतः तः
शुद्धाशुद्धविवेकः

12 भारतीयभाषाभिः विकिस्रोतः (आन्तर्जालिकग्रन्थालयः) वर्तते । तत्रत्यग्रन्थानां पाठशुद्ध्यर्थं पाठशुद्धिस्पर्धा आयोज्यते । गतवर्षे आयोजितायां स्पर्धायां संस्कृतविकिस्रोतसि एव भागग्राहिणः अधिकाः आसन् इति गर्वस्य विचारः । पुनरपि आगष्ट् मासस्य १५ दिनाङ्कतः ३१ दिनाङ्कपर्यन्तं भारतीय-विकिसोर्स्-पाठशुद्धिस्पर्धा आयोजिता । तत्र संस्कृतसमुदायः अपि भागग्रहणं करोति ।अस्यां स्पर्धायां प्रमुखतया रामायणग्रन्थस्य कार्यं करणीयम् इति लक्ष्यं वर्तते ।


अत्र के भागं ग्रहीतुम् अर्हाः ?

  • आसक्ताः सर्वे अपि भागं ग्रहीतुम् अर्हन्ति ।


भागग्रहणाय

अस्मिन् पुटे उपरि दक्षिणभागे सम्पाद्यताम् इति नुदन्तु । संख्यायाः पुरतः ~~~~ इति लिखित्वा परिवर्तन प्रकाश करें इति नुदति चेत् भागग्राहिणाम् आवल्यां भवतः/भवत्याः नाम योजितं भवति । (एवं करणावसरे विकिपुटे प्रविष्टः (Log in)स्यात् । हस्तकरणावसरे नामलेखनस्य आवश्यकता नास्ति । ~~~~ इति टङ्कित्वा परिवर्तन प्रकाश करें इति नुदति चेत् नाम स्वयम् आगच्छति)

नाम भारतीय-विकिसोर्स्-पाठशुद्धिस्पर्धा
दिनाङ्कः आगष्ट् १५ तः ३१, २०२१
निर्वाहकाः शुभा
सायन्तो माहातो
सुरेखा कामत्
सूर्यहेब्बारः
आयोजनसाहाय्यम्