इतिहासपुराणभारतस्मृतिशास्त्राणि पुनःपुनर्मुदा ।
विबुधैः सुबुधो विलोकयन्सकलज्ञत्वपदं प्रपेदिवान् ॥१०६
स पुनः पुनरैक्षतादराद्वरवैयासिकशान्तिवाक्ततीः ।
समगादुपशान्तिसंभवां सकलज्ञत्ववदेव शुद्धताम् ॥१०७
असत्प्रपञ्जश्चतुराननोऽपि सन्नभोगयोगी पुरुषोत्तमोऽपि सन् ।
अनङ्गजेताऽप्यविरूपदर्शनो जयत्यपूर्वो जगदद्वयीगुरुः ॥ १०८
आलोक्याननपङ्कजेन दधतं वाणी सरोजासनं
शश्वत्सन्निहितक्षमाश्रियममुं विश्वम्भरं पूरुषम् ।
आर्याराधितकोमला कमलं कामद्विषं कोविदाः
शंकन्ते भुवि शङ्करं व्रतिकुलालङ्कारमङ्कागताः॥१०९
एकस्मिन् पुरुषोत्तमे रतिमती सत्तामयोन्युद्भवां
मायाभिक्षुहतामनेकपुरुषासक्तिभ्रमान्निष्ठराम् ।
जित्वा तान् बुधवैरिणः प्रियतया प्रत्याहरद्यश्चिरा-
दास्ते तापसकैतवात् त्रिजगतां त्राता स नः शङ्करः ॥ ११०
इति श्रीमाधवीये तदाशुद्धाष्टमवृत्तगः ।
संक्षेपशङ्करजये चतुर्थः सर्ग आभवत् ॥
आदितः श्लोकाः 384
अथ पञ्चमः सर्गः ॥ ५ ॥
॥ संन्यासग्रहणम् ॥
इति सप्तमहायनेऽखिलश्रुतिपारंगततां गतो वटुः ।
परिवृत्य गुरोः कुलाद् गृहे जननीं पर्यचरन्महायशाः ॥१
परिचरञ्जननीं निगमं पठन्नपि हुताशरवीं सवनद्वयम् ।
मनुवरैनियतं परिपूजयञ्छिशुरवर्तत संस्तरणियथा ॥२