सामग्री पर जाएँ

पृष्ठम्:शङ्करदिग्विजयः.djvu/४६

विकिस्रोतः तः
एतत् पृष्ठम् अपरिष्कृतम् अस्ति
40
[ चतुर्थः
श्रीमच्छङ्करदिग्विजये

परिशुद्धकथासु निर्जितो यशसा तस्य कृताङ्कन: शशी ।
स्वकलङ्क निवृत्तयेऽधुनाऽप्युदधौ मज्जति सेवते शिवम् ॥९९

 घम्मिल्ले नवमल्लिवल्लिकुसुम स्रकल्पना शिल्पिनो
  भद्र श्रीरसचित्रचित्रितकृतः कान्ते ललाटान्तरे ।
 तारावल्यनुहारिहारलतिकानिर्माणकर्माणुका:
  कण्ठे दिवसुदृशां मुनीश्वरयशःपूरा : नमः पूरकाः ॥१००

 उत्सङ्गेषु दिगङ्गना निघते तारा: कराकर्षिका:
  रागाद् द्यौरवलम्ब्य चुम्बति वियद्गङ्गा समालिङ्गति ।
 लोकालोकदरी मसीदति फणी शेषोऽस्य दत्ते रति
  त्रैलोक्ये गुरुराजकीर्तिश शिनः सौन्दर्यमत्यद्भुतम् ॥१०१

 संपाता मुनिशेखरस्य हरितामन्तेषु सांकाशिनं
  कल्लोला यशसः शशाङ्ककिराणानालक्ष्य सांहासिनम् ।
 कुर्वन्ति प्रथयन्ति दुर्मदसुधावैदग्ध्यसंलोपिनं
  सम्यग् घ्नन्ति च विश्वजांघिकतमः संघातसांघातिनम् ॥ १०२

 सोत्कण्ठाकुण्ठकण्ठीरवनखवरक्षुण्णमत्तेभकुम्भ-
  प्रत्ययोन्मुक्तमुक्तामणिगणसुषमाबद्धदोर्युद्धलीला ।
 मन्थाद्रिक्षुब्धदुग्धार्णवनिकट समुल्लोलकल्लालमैत्री-
  पात्रीभूता प्रभूता जयति यतिपतेः कीर्तिमाला विशाला ॥ १०३

 लोकालोकदरि प्रसीदसि चिरार्दिक शङ्करश्रीगुरु-
  प्रोद्यत्कीर्तिनिशाकरं प्रियतमं संश्लिष्य संतुष्यसि ।
 त्वं चाप्युत्पलिनि प्रहृष्यसि चिरात्कस्तत्र हेतुस्तयो-
  रित्यं प्रश्नगिरां परस्परमभूत्स्मेरत्वमेवोत्तरम् ॥१०४

 दुर्वाराखर्वगर्वाहितबुधजनतातुलवातूळवेगो
  निर्वाधागाधबोधामृत किरणसमुन्मेषदुग्धाम्बुराशिः ।
 निष्प्रत्यहं प्रसर्पद्भवदवदहनोसन्तापमेघो
  जागर्ति स्फीतकीर्तिर्जगति यतिपतिः शङ्कराचार्यवर्यः ॥ १०५