विकिस्रोतः:भारतीय-विकिसोर्स्-पाठशुद्धिस्पर्धा नवेम्बर् २०२०/इतिवृत्तम्
मुख्यपृष्ठम् | भागग्राहिणः | कार्यविभागः | नियमाः | ग्रन्थाः | पुरस्काराः | प्रगतिः | साहाय्यम् & चर्चा | इतिवृत्तम् |
नवम्बर् मासस्य १ दिनाङ्कतः १५ दिनाङ्कपर्यन्तं भारतीय-विकिसोर्स्-पाठशुद्धिस्पर्धा सम्पन्ना ।
साङ्ख्यिकविवरणम्
[सम्पाद्यताम्]भागग्राहिणां सङ्खया | ४७ |
पुरुषाः:महिलाः | ३०:१७ |
नूतनसदस्याः | ३३ |
स्वीकृतानि पुस्तकानि | ३३ |
परिष्कृतानि पुटानि | ५३१० |
सुपुष्टितानि पुटानि | १३०३ |
भारतीयभाषासु स्थानम्
[सम्पाद्यताम्]द्वादशसु भारतीयभाषासु इयं स्पर्धा सञ्चालिता । तत्र कार्यविषये तमिळु, हिन्दी, बेङ्गाली, अस्मामीस् अनन्तरं पञ्चमं स्थानं संस्कृतेन प्राप्तम् । भागग्राहिणां विषये तु द्वितीयं स्थानम् । ग्रन्थानां संख्याविषये च चतुर्थं स्थानं प्राप्तम् ।
स्वीकृतानि पुस्तकानि
[सम्पाद्यताम्]मूलग्रन्थाः- पाठशुद्धिस्पर्धा नवेम्बर् २०२० मुख्यग्रन्थाः
बहुषु पुस्तकेषु प्रतिपुस्तकम् अनेके अवान्तरभागाः आसन् । ये च विभागदृष्ट्या पृथक् ग्रन्थत्वेन स्वीकर्तुं शक्याः । एवं कृत्वा सोऽपि विभागः कृतः । ते च ग्रन्थाः अत्र विद्यन्ते ।- पाठशुद्धिस्पर्धा नवेम्बर् 2020
फलितांशः
[सम्पाद्यताम्]स्पर्धायाः फलितांशः इत्थं वर्तते ।
विकिपरिवारमेलनम् समारोपसमारम्भश्च
[सम्पाद्यताम्]एतस्याः स्पर्धायाः अङ्गतया विकिपरिवारमेलनम् आयोजितम् । १८-११-२०२० तमे दिनाङ्के सायं ६ वादनतः अयं कार्यक्रमः गूगल् मीट् द्वारा प्रवृत्तः । संस्कृतसंवर्धनप्रतिष्ठानस्य न्यासी पद्मश्रीः चमू कृष्णशास्त्रिवर्यः कार्यक्रमे मुख्याभ्यागतरूपेण उपस्थितः आसीत् । सिऐएस् पक्षतः उपस्थितः आसीत् । ज्येष्ठाः विकिस्वयंसेवकः अरुणमहोदयः, भारतीयविकिस्रोतःसंयोजकः जयन्तमहोदयः च उपस्थितः आसीत् । कार्यक्रमे विकिपरिवारस्य अग्रिमयोजनायाः विषये चर्चा कृता ।