विकिस्रोतः:भारतीय-विकिसोर्स्-पाठशुद्धिस्पर्धा नवेम्बर् २०२०/नियमाः

विकिस्रोतः तः

स्पर्धायाः नियमाः एवं विद्यन्ते ।

  1. स्पर्धा ०१-११-२०२० दिनाङ्के ०० वादनतः तः १५-११-२०२० दिनाङ्के २३.५९ पर्यन्तं चलिष्यति।
  2. भारतीयसमयः (UTC+05:30) परिगण्यते ।
  3. स्पर्धायाः कालावधौ कृतं कार्यमेव स्पर्धायां परिगण्यते ।
  4. भारतीयविकिस्रोतःस्पर्धायाः ग्रन्थावल्यां निर्दिष्टेषु ग्रन्थेषु कृतं कार्यम् एव परिगण्यते ।
  5. कश्चन सदस्यः यदि एकस्य पुटस्य प्रथमवारं पाठशुद्धिं करोति तर्हि ३ अङ्कान् प्राप्नोति. द्वितीयवारं कृतस्य पाठशुद्धेः १ अङ्कं प्राप्नोति.
  6. कार्यविवरणम् इत्यत्र कार्यं सूच्यते सूचितमेव कार्यं करणीयम् । अन्यथा समानं कार्यं बहुभिः कृतं स्यात् ।
  7. ocr कृत्वा अपठित्वा रक्ष्यते चेत् तस्य गणना न भवति ।
  8. रिक्तपुटस्य अङ्कः न भवति ।

अङ्कगणना[सम्पाद्यताम्]

तन्त्रांशद्वारा अङ्कगणना स्वयं भवति । तत्र त्रयः अंशाः विद्यन्ते ।


अङ्कगणना
वर्णः कृतं कार्यम् अङ्काः प्रथमपाठशुद्धिः योगदानानि
प्रथमपाठशुद्धिः: 3 अङ्काः 0 1
द्वितीयपाठशुद्धिः 1 अङ्कः 1 1
शुद्धस्य पुटस्य अशुद्धीकरणम् -1 अङ्कः -1 -1
द्वितीयवारमपि शुद्धीकृतस्य अशुद्धीकरणम् -3 अङ्काः 0 -1
समस्यात्मकपृष्ठम् 0 अङ्कः
रिक्तं पृष्ठम् 0 अङ्कः
अपठितं पृष्ठम्

कर्तव्यानि[सम्पाद्यताम्]

  • स्वसदस्यनाम्ना प्रविश्य (log in कृत्वा) पाठशुद्धिः करणीया ।
  • निर्दिष्टानाम् एव ग्रन्थानां पाठशुद्धिः ।
  • आयोजनगणेन सूचितानाम् एव पुटानां पाठशुद्धिः ।
  • निर्दिष्टेषु दिनाङ्केषु यदाकदापि पाठशुद्धिः ।
  • सम्यक् पठित्वा पाठशुद्धिः ।
  • पुटस्य संरक्षणात् पूर्वं पुटस्थितिसूचकस्य पिञ्जस्य (पीतवर्णस्य/हरितवर्णस्य) नोदनम् ।


अकर्तव्यानि[सम्पाद्यताम्]

  • प्रवेशं विना पाठशुद्धिः न करणीया।
  • निर्दिष्टात् भिन्नस्य ग्रन्थस्य पाठशुद्धिः न करणीया। तेन स्पर्धायां परिगणनं न भवति।
  • आयोजकगणेन असूचितस्य पुटस्य पाठशुद्धिः न करणीया। तेन समानं पुटं बहुभिः स्पर्धिभिः शुद्धीकरणीयम् आपतति।
  • पाठशुद्धिं विना पृष्ठस्य रक्षणं न करणीयम्।
  • पाठशुद्ध्यनन्तरं वर्णपरिवर्तनेन (पीतपिञ्जनोदनेन/हरितपिञ्जनोदनेन) विना रक्षणं न करणीयम्।