पुटमेतत् सुपुष्टितम्
चतुर्विशः पटलः॥
अथ संप्रति विष्णुपञ्जरस्य
प्रतिवक्ष्यामि समासतो विधानम् ।
जितवांस्त्रिपुरं हरोऽपि येन
त्रिदशानामधिपो वलासुरं च ॥ १ ॥
शक्तेर्द्वादशगुणिते
यन्त्रे मन्त्राणि मण्डलान्यपि च ।
बीजानि यानि चोक्ता-
न्येभिः क्लृप्तं तु पञ्जरं विष्णोः ॥ २॥
विष्णुं लिखेन्मध्यगशक्तिबिन्दौ
कपोलयोः सिंहवराहबीजे ।
तद्विश्वरूपाह्वयमन्त्रवीतं
प्रवेष्टयेत्षोडशमन्त्रवर्णैः ॥ ३ ॥