पृष्ठम्:प्रपञ्चसारः (द्वितीयो भागः).pdf/७२

विकिस्रोतः तः
पुटमेतत् सुपुष्टितम्
३६१
त्रयोविंशः पटलः ।

अवाप्य स तु दीर्घमायुरखिलैर्वियुक्तो गदैः
 सुखी भवति मानवो निजकलत्रपुत्रादिभिः ॥

विस्तारैः किं प्रतिजपति यो मन्त्रमेनं यथोक्तं
 लब्ध्वा कामान्समभिलषितानाशु मन्त्री स भूयः ।
द्रव्यैराढ्यो द्विजनृपवरैः पूजित: शान्तचेताः
 स्यादप्यन्ते परमपरिशुद्धं परं धाम विष्णोः ॥

इति श्रीमत्परमहंसपरिव्राजकाचार्यस्य
श्रीगोविन्दभगवत्पूज्यपादशिष्यस्य
श्रीमच्छंकरभगवतः कृतौ
प्रपञ्चसारे त्रयोविंशः पटलः॥