वाक्पीयूषकणा इव त्रिपथगा पर्यायभेदा इव
भ्राजन्ते तव मन्दहासकिरणाः काञ्चीपुरीनायिके ॥ १५॥
वक्षोजे धनसारपत्ररचनाभङ्गीसपलायिता
कर्णे बन्धुरदन्तपत्रकुहना व्यापारमुद्रायिता ।
ओष्ठश्रीनिकुरुम्बपल्लवपुटे प्रेङ्क्ष्त्सूनायिता
कामाक्षि स्फुरता मदीयहृदये त्वन्मन्दहासप्रभा ॥ १६ ॥
येषां बिन्दुरिवोपरि प्रचलितो नासाप्रमुक्तामणि-
र्येषां दीन इवाधिकण्ठमयते हारः करालम्बनम्
येषां बन्धुरिवोष्ठयोररुणिमा धत्ते स्वयं रञ्जनं
कामाक्ष्याः अभवन्तु ते मम शिवोल्लासाय हासाङ्कुराः ॥ १७ ॥
या जाड्याम्बुनिधि क्षिणोति भजता वैरागते कैरवै-
र्नित्यं या नियमेन या च यतते कर्तुं त्रिनेत्रोत्सवम् ।
बिम्बं चान्द्रमसं च वञ्चयति या गर्वेण सा तादृशी
कामाक्षि सितमञ्जरी तव कथं ज्योत्स्नात्यसौ कीर्त्यते ॥ १८ ॥
आरूढा रभसात्पुरः पुररिपोराश्लेषणोपक्कमे
या ते मातरुपैति दिव्यतटिनीशङ्काकरी तत्क्षणम्
ओष्ठं बेपयति भ्रूवौ कुटिलयत्यानम्रयत्याननं
तां वन्दे मृदुहासपूरसुषमामेकाम्रनाथप्रिये ॥ १९ ॥
वक्रेन्दोस्तव चन्द्रिका स्थितरुचिर्वल्गु स्फुरन्ती सतां
स्याच्चेद्युतमिदं चकोरमनसां कामांक्षि कौतूहलम्
एतच्चित्रमहर्निशं यदधिकामेकां सदा गाहते
बिम्बोष्ठद्युमणिप्रभास्वपि च यद्हिभोकमालम्बते ॥ २० ॥