साहाय्यं कलशाम्बुधेर्वहति ते कामाक्षिः मन्दस्मितं
शोभामोष्ठरुचा च विद्रुमभवामेतद्भिदां ब्रूमहे ।
एतस्मादुदितां पुरा किल पपौ शर्वः पुराणः पुमा-
नेतन्मध्यसमुद्भवां रसयते माधुर्यरूपां सुधाम् ॥ २१ ॥
उत्तुङ्गस्तनकुम्भशैलकटके विस्तारिकस्तूरिका-
पत्रश्रीजुषि चञ्चलाः स्मितरुचः कामाक्षि ते कोमलाः
संध्यादीधितिरञ्जिता इव मुहुः सान्द्राधरज्योतिषा
व्यालोलामलशारदाभ्रशकलव्यापारमातन्वते ॥ २२ ॥
क्षीरं दूरत एवं तिष्ठतु कथं वैमल्यमात्रादिदं
मातस्ते सहपाठवीथिमयतां मन्दस्मितैर्मञ्जुलैः
किं चेयं तु भिदास्ति दोहनवशामेतत्तु संजायते।
कामाक्षि स्वयमर्थितं प्रणमतामेतत्तु दोंदुह्यते ॥ २३ ॥
कर्पूरैरमृतांशुभिर्जननि ते कान्तैश्च चन्द्रातपै-
मुक्ताहारगुणैर्मृणालवलयैर्मुग्धस्मितश्रीरियम् ।
श्रीकाञ्चीपुरनायिके समतया संस्तूयते सज्जनै-
स्तत्तादृङ् मम तापशान्तिविधये किं देवि मन्दायते ॥ २४ ॥
मध्ये गर्भितमञ्जुवाक्यलहरीमाध्वीझरीशीतला
मन्दारस्तबकायते जननि ते मन्दस्मितांशुच्छटा
यस्या वर्धयितुं मुहुर्विकसनं कामाक्षि कामद्रुहो
वल्गुर्वीक्षणविभ्रमव्यतिकरो वासन्तमासायते ॥ २५ ॥
बिम्बोष्ठद्युतिपुञ्जरजितरुचिस्त्वन्मन्दहासच्छटा
कल्याणं गिरिसार्वभौमतनये कल्लोलयत्वाशु मे ।
फुल्लन्मल्लिपिनद्धहल्लकमयी मालेव या पेशला
श्रीकाञ्चीश्चरि मारमर्दितुरुरोमध्ये मुहुर्लम्बते ॥ २६ ॥