जालेन शृङ्खलयति त्वदपाङ्गनाम्ना ।
विस्तारितेन विषमायुधदाशकोऽसौ ॥ २८ ॥
उन्मथ्य बोधकमलाकरमम्ब जाड्य-
स्तम्बेरमं मम मनोविपिने भ्रमन्तम् ।
कुण्ठीकुरुष्व तरसा कुटिलाग्रसीम्ना
कामाक्षि तावककटाक्षमहाङ्कुशेन ॥ २९ ॥
उद्वेल्लितस्तबकितैर्ललितैर्विलासै-
रुत्थाय देवि तव गाढकटाक्षुकुञ्जात् ।
दूरं पलाययतु मोहमृगीकुलं मे
कामाक्षि सत्वरमनुग्रहकेसरीन्द्रः ॥ ३० ॥
स्नेहाहृतां विदलितोत्पलकान्तिचोरां
जे[१] तारमेव जगदीश्वर जेतुकाम: ।
भानोद्धतो मकरकेतुरसौ धुनीते
कामाक्षि तावककटाक्षकृपाणवल्लीम् ॥ ३१ ॥
श्रौतीं वजन्नपि सदा सरणिं मुनीनां
कामाक्षि संततमापि स्मृतिमार्गगामी ।
कौटिल्यमम्ब कथमस्थिरतां च धत्ते
चौर्यं च पङ्कजरुचां त्वदपाङ्गपातः ॥ ३२ ॥
नित्यं श्रुतेः परिचितौ यतमानमेव
नीलोत्पलं निज्रसमीपनिवासलोलम् ।
प्रीत्यैव पाठयति वीक्षणदेशि[२]केन्द्रः
कामाक्षि किं [३]नु तव कालिमसंप्रदायम् ॥ ३३ ॥