भ्रान्त्वा मुहुः स्तबकितस्मितफेनराशौ
कामाक्षि वक्ररुचिसंचयवारिराशौ ।
आनन्दति त्रिपुरमर्दननेत्रलक्ष्मी-
रालम्ब्य देवि तव मन्दमपाङ्गसेतुम् ॥ ३४ ॥
[१]श्यामा तव त्रिपुरसुन्दारि लोचनश्रीः
कामाक्षि कन्दलितमेदुरतारकान्तिः ।
ज्योत्स्नावती स्मितरुचापि कथं तनोति
स्पर्धामहो कुवलयैश्च तथा चकोरैः ॥ ३५ ॥
कालाञ्जनं च तव देवि निरीक्षणं च
कामाक्षि साम्यसरणिं समुपैति कान्त्या ।
निःशेषनेत्रसुलभं जगतीषु पूर्व-
मन्यत्रिनेत्रसुलभं तुहिनाद्विकन्ये ॥ ३६॥
धूमाङ्कुरो मकरकेतनपावकस्य
कामाक्षि नेत्ररुचिनीलिमचातुरी ते ।
अत्यन्तमद्भुतमिदं नयनत्रयस्य
हर्षोदयं जनयते हरिणाङ्कमौलेः ॥ ३७ ॥
आरम्भलेशसमये तद वीक्षणस्य
कामाक्षि मूकमपि वीक्षणमात्रनम्रम् ।
सर्वज्ञता सकललोकसमक्षमेव
कीर्ति[२]स्वयंवरणमाल्यवती वृणीते ॥ ३८ ॥
कालाम्बुवाह इव ते परितापहारी
कामाक्षि [३]
पुष्करमधः कुरुते कटाक्षः ।