पृष्ठम्:काव्यमाला ( पञ्चमो गुच्छकः).pdf/१०

विकिस्रोतः तः
एतत् पृष्ठम् परिष्कृतम् अस्ति
काव्यमाला


केशप्रभाषटलनीलवितानजाले
 'कामाक्षि कुण्डलमणिच्छत्रिदीपशोभे
कम्रे कटाक्षरुचिरङ्गतले कृपाख्या
 शै[१] लूषकी नटति शंकरवल्लमे ते ॥ २३ ॥
अत्यन्तशीतलमतन्द्रयतु क्षणार्ध-
 मस्तोकविभ्रममनङ्गविलासकन्दम् ।
अल्पस्मितादृतमपारकृपाप्रवाह-
 मक्षिप्ररोहमचिरान्मयि कामकोटि ॥ २४ ॥
मन्दाक्षराग[२] तरलीकृतिपारतन्त्र्या-
 त्कामाक्षि मन्थरतरां त्वदपाङ्गदोलाम् ।
आरुह्य म[३]न्दमतिकौतुकशालि चक्षु-
 रानन्दमेति मुहुरर्धशशाङ्कमौलेः ॥ २५ ॥
त्रै[४]यम्बकं त्रिपुरसुन्दरि हर्म्यभूमि-
 रङ्ग विहार[५]सरसी करुणाप्रवाहः ।
दासाश्च वासवमुखाः परिपालनीयं
 कामाक्षि विश्वमपि वीक्षणभूभृतस्ते ॥ २६ ॥
वागीश्वरी सहचरी नियमेन लक्ष्मी-
 र्भ्रूवल्लरीवशकरी भुवनानि गेहम् ।
रूपं त्रिलोकनयनामृतमम्ब तेषां
 कामाक्षि येषु तव वीक्षणपारतन्त्री ॥ २७ ॥
माहेश्वरं झटिति मानसमीनमम्ब
 कामाक्षि धैर्यजलघौ नितरां निमग्नम् ।

  1. नटी.
  2. 'तरलीकृत' इति ग-पाठः,
  3. मन्दमिति क्रियाविशेषणम्,
  4. त्रैयम्बकमङ्गं हर्म्यभूमिरित्यन्वय:.
  5. 'करुणाकटाक्षः इति अ-पाठः-