सामवेदः/कौथुमीया/संहिता/ग्रामगेयः/प्रपाठकः ०२/घृताचेराङ्गिरसः

विकिस्रोतः तः
घृताचेराङ्गिरसः.
घृताचेराङ्गिरसः.

प्र सम्राजमसुरस्य प्रशस्तं पुंसः कृष्टीनामनुमाद्यस्य |
इन्द्रस्येव प्र तवसस्कृतानि वन्दद्वारा वन्दमाना विवष्टु || ७८ ||

प्र सम्राजो असुरस्य प्रशस्तिं पुंसः कृष्टीनामनुमाद्यस्य ।
इन्द्रस्येव प्र तवसस्कृतानि वन्दे दारुं वन्दमानो विवक्मि ॥ ऋ. ७.६.१

( ७८।१) ।। घृताचेराङ्गिरसस्य साम। घृताचिस्त्रिष्टुबग्निः; इन्द्रो वा ।।
प्रसम्राजाम्।। असुराऽ३ । स्याप्रशस्ताम् । पुꣳसःकृष्टाइ । नाऽ३मनु । मादियस्या । इन्द्रस्येवाऽ३४३प्रतव ।। सस्कृतानी।।वंदद्वारावंदमाना।। विवाऽ२ष्टूऽ२३४औहोवा।।वीऽ२३४शाः।।
( दी० ८। प० ११ । मा० ५) १६( टु । १२६)


[सम्पाद्यताम्]

टिप्पणी