पृष्ठम्:मनुस्मृतिः (मन्वर्थमुक्तावलीसंवलिता).pdf/३३७

विकिस्रोतः तः
एतत् पृष्ठम् अपरिष्कृतम् अस्ति

अध्यायः ८] मन्वर्थमुक्तावलीसंवलिता। a निक्षेपो यः कृतो येन यावांश्च कुलसंनिधौ । तावानेव स विज्ञेयो विब्रुवन्दण्डमर्हति ॥ १९४ ॥ निक्षेप इति ॥ यः सुवर्णादिवित्परपरिमितो येन साक्षिसमक्षं निक्षेपः कृतस्तन्त्र परिमाणादिविप्रतिपत्तौ साक्षिवचनात्तावानेव विज्ञातव्यः । विप्रतिपत्तिं कुर्वन्नप्ये- तदुक्तानुसारेण दण्डं दाप्यः ॥ १९४ ॥ मिथो दायः कृतो येन गृहीतो मिथ एव वा । मिथ एव प्रदातव्यो यथा दायस्तथा ग्रहः ॥ १९५॥ मिथो दाय इति ॥ रहसि येन निक्षेपोऽर्पितो निक्षेपधारिणा च रहस्येव गृहीतः स निक्षेपो रहस्येव प्रत्यपणीयः। न प्रत्यर्पणे साक्ष्यपेक्षा। यस्माद्येनैव प्रकारेण दानं तेनैव प्रकारेण प्रत्यर्पणं दातव्यमिति श्रवणान्निक्षेपधारिणोऽयं नियमविधिः । 'यो यथा निक्षिपेद्धस्त' इति तु निक्षेनियमार्थ, ग्रहीतव्य इति श्रवणात् । अतो न पौनरुक्त्यम् ॥ १९५ ॥ निक्षिप्तस्य धनसैवं प्रीत्योपनिहितस्य च । राजा विनिर्णयं कुर्यादक्षिण्वन्न्यासधारिणम् ॥ १९६॥ निक्षिप्तस्येति ॥ राज्ञा निक्षितस्य धनस्यामुद्रस्य मुद्रादियुतस्य वोपनिधिरू- पस्य तथा प्रीत्या कतिचित्कालं भोगार्थमर्पितस्यानेनोक्तप्रकारेण न्यस्तधनधारिणम- पीडयनिर्णयं कुर्यात् ॥ १९६ ॥ विक्रीणीते परस्य स्खं योऽस्वामी स्वाम्यसंमतः । न तं नयेत साक्ष्यं तु स्तेनमस्तेनमानिनम् ॥ १९७ ॥ विक्रीणीत इति ॥ अस्वामी यः स्वामिना चाननुगतः परकीयं द्रव्यं विक्रीणीते वस्तुतश्चौरमचौरमात्मानं मन्यमानं तं साक्षित्वं न कारयेत् । न कुत्रचिदपि प्रमा- णीकुर्यादित्यर्थः ॥ १९७ ॥ अवहार्यों भवेच्चैव सान्वयः षट्शतं दमम् । निरन्वयोऽनपसरः प्राप्तः स्यान्चौरकिल्बिषम् ॥ १९८ ॥ अवहार्य इति ॥ एष परस्वविक्रयी यदि स्वामिनो भ्रात्रादिरूपत्वेन सान्वयः संबन्धी भवति तदा षट् पणशता तान्यवहार्यों दण्डनीयः । यदि पुनः स्वामिनः संबन्धी न भवति, अनपसरश्च स्यात्, अपसरत्यनेनास्मात्सकाशाद्धनमित्यपसरः प्रतिग्रहक्रयादिः स यस्य स्वामिसंबन्धिपुत्रादेः सकाशान्नास्ति तदा चौरसंबन्धि पापं प्राप्नोति । तद्वद्दण्डनीय इत्यर्थः ॥ १९८ ॥ अस्वामिना कृतो यस्तु दायो विक्रय एवं वा । अकृतः स तु विज्ञेयो व्यवहारे यथा स्थितिः॥ १९९ ॥ अस्वामिनेति ॥ अस्वामिना यत्कृतं यद्दत्तं विक्रीतं वा तदकृतमेव बोद्धव्यम् । व्यवहारे यथा मर्यादा तथा कृतं न भवतीत्यर्थः ॥ १९९ ॥