पृष्ठम्:मनुस्मृतिः (मन्वर्थमुक्तावलीसंवलिता).pdf/३३८

विकिस्रोतः तः
एतत् पृष्ठम् अपरिष्कृतम् अस्ति

३०४ मनुस्मृतिः। [अध्यायः ८ संभोगो दृश्यते यत्र न दृश्येतागमः कचित् । आगमः कारणं तत्र न संभोग इति स्थितिः ॥ २०॥ संभोग इति ॥ यस्मिन्वस्तुनि संभोगो विद्यते क्रयादिरूपस्त्वागमो नास्ति तत्र प्रथमपुरुषगोचर आगम एव प्रणामं न संभोग इति शास्त्रमर्यादा ॥ २०० ॥ विक्रयायो धनं किंचिह्नीयात्कुलसंनिधौ । क्रयेण स विशुद्धं हि न्यायतो लभते धनम् ॥ २०१ ॥ विक्रयादिति ॥ विक्रीयतेऽस्मिन्निति विक्रयदेशो विक्रयः ततो यत्केयधनं किंचिब्यवहर्तृसमूहसमक्षं क्रीयतेऽनेनेति ऋयो मूल्यं तेन यस्माद्गृह्णीयात् । अतो न्यायत एवास्वामिविक्रेतृसकाशात्क्रयणाद्विशुद्धं धनं लभते ॥ २० ॥ अथ मूलमनाहार्य प्रकाशक्रयशोधितः । अदण्ड्यो मुच्यते राज्ञा नाष्टिको लभते धनम् ॥ २०२ ॥ अथेति ॥ अथ मूलमस्वामी विक्रेता मरणाद्देशान्तरादिगमनादिना वा हर्तु शक्यते प्रकाशक्रयणे चासौ निश्चितस्तदा दण्डानह एव क्रेता राज्ञा मुच्यते । नष्ट- धनस्वामी च यदस्वामिना विक्रीतं द्रव्यं तत्केतुर्हस्ताल्लभ्यते । अत्र च विषयोऽध. मूल्यं केनुर्दत्त्वा स्वधनं स्वामिना ग्राह्यम् । तदाह बृहस्पतिः-'वणिग्वीथीपरिगतं विज्ञातं राजपूरुपैः। अविज्ञाताश्रयात्क्रीतं विक्रेता यत्र वा मृतः ॥ स्वामी दत्त्वार्ध- मूल्यं तु प्रगृह्णीयात्स्वकं धनम् । अर्धे द्वयोरपहृतं तत्र स्याब्यवहारतः' ॥२०२॥ नान्यदन्येन संसृष्टरूपं विक्रयमर्हति । न चासारं न च न्यूनं न दूरेण तिरोहितम् ॥ २०३ ॥ नान्यदिति ॥ कुड्डमादि द्रव्यं कुसुम्भादिना मिश्रीकृत्य न विक्रेतव्यं । नचासारं सारमित्यभिधाय । नच तुलादिना न्यूनम् । न परोक्षावस्थितम् । न रागादिना स्थगितरूपम् । अत्रास्वामिविक्रयसादृश्यादस्वामिविक्रये दण्ड एव स्यात् ॥२०३ ।। अन्यां चेद्दर्शयित्वान्या बोद्धः कन्या प्रदीयते । उभे त एकशुल्केन वहेदित्यब्रवीन्मनुः ॥२०४॥ अन्यामिति ॥ शुल्कदेयां शुल्कव्यवस्थाकाले निरवद्यां दर्शयित्वा यदि सावद्या वराय दीयते तदा द्वे सपि कन्ये तेनैवैकेन शुल्केनासौ वरः परिणयेदिति मनु- राह । शुल्कग्रहणपूर्वककन्याया दानस्य विक्रयरूपत्वादर्थक्रयविक्रयसाधयेणास्था- त्राभिधानम् ॥ २०४॥ नोन्मत्ताया न कुष्ठिन्या न च या स्पृष्टमैथुना। पूर्व दोषानभिख्याप्य प्रदाता दण्डमर्हति ॥ २०५ ।।