पृष्ठम्:मनुस्मृतिः (मन्वर्थमुक्तावलीसंवलिता).pdf/३३६

विकिस्रोतः तः
Jump to navigation Jump to search
एतत् पृष्ठम् अपरिष्कृतम् अस्ति


३०२ मनुस्मृतिः। [ अध्यायः ८ निक्षेपेष्वेषु सर्वेषु विधिः स्यात्त्वरिसाधने । समुद्रे नाप्नुयात्किचिद्यदि तस्मान्न संहरेत् ॥ १८८ ॥ निक्षेपेप्विति ॥ सर्वेषु निक्षेपेष्वपक्रियमाणेप्वेष 'साक्ष्यभावे' इत्यादिपूर्वोक्तवि- धिनिर्णयसिद्धौ स्यात् । मुद्रितादौ पुनस्तस्य निक्षेपधारी यदि प्रतिमुद्रादिना न किमप्यपहरेत्तदा तस्मिन्नपि तेन किं दूषणं प्राप्नुयात् ॥ १८८ ॥ चौरर्हतं जलेनोढमग्निना दग्धमेव वा । न दद्याद्यदि तस्मात्स न संहरति किंचन ॥ १८९ ॥ चौरैरिनि ॥ चौरैर्मुषितं, उदकेन देशान्तरं प्रापितं, अग्निना वा दग्धं निक्षेप 'निक्षेपधारी न दद्यात् । यदि स्वयं तस्मान्न किंचिदप्यपहरति ॥ १८९॥ निक्षेपसापहर्तारमनिक्षेप्तारमेव च । सर्वेरुपायैरन्विच्छेच्छपथैश्चैव वैदिकैः ॥ १९० ॥ निक्षेपस्येति ॥ निक्षेपत्त्यापहोतारमनिक्षिप्य याचितारं सर्वैः सामादिभिरुपायैवै- दिकैश्च शपथैरग्निहरणादिभिर्नृपो निरूपयेत् ॥ १९० ॥ यो निक्षेपं नार्पयति यश्चानिक्षिप्य याचते । तावुभौ चौरवच्छास्यौ दाप्यौ वा तत्समं दमम् ॥१९१॥ यो निक्षेपमिति ॥ निक्षिप्तधनं यो न समर्पयति यश्चानिक्षिप्तं प्रार्थयति नौ द्वौ सुवर्णमुक्तादौ महति विषये चौरवद्दण्ड्यौ । स्वल्पविषये तानादौ तत्सम दण्डनीयौ ॥ १९१ ॥ निक्षेपस्यापहर्तारं सत्समं दापयेदमम् । तथोपनिधिहर्तारमविशेषेण पार्थिवः ॥ १९२ ॥ निक्षेपस्येति ॥ निक्षेपापहारिणं निक्षिप्तसमधनं दण्डयेत् । समशिष्टत्वादनि- क्षिप्य याचितारमपि । नच पुनरुक्तिः । महत्यपराधे ब्राह्मणेतरस्य चौरवदिति पूर्वश्लोकेन शारीरदण्डस्यापि प्राप्तौ तन्निवृत्त्यर्थमिदम्, दापयेदिति धनदण्डनिय- मात् । नचानेन पूर्वश्लोकवैयर्थ्यम् । अस्य प्रथमापराधविषयत्वात्पूर्वोक्ते चाभ्यासे चौरोक्तमहासाहसादिधनदण्डावरोधकत्वात् । उपनिधिमुद्रादिचिहितं निहितधनं तस्यापहर्तारं कथित विशेषणं राजा दण्डयेत् ॥ १९२ ॥ उपधाभिश्च यः कश्चित्परद्रव्यं हरेन्नरः। ससहायः स हन्तव्यः प्रकाशं विविधैर्वधैः॥ १९३ ॥ उपधाभिरिति ॥ राजा त्वयि रुष्टस्तस्मात्त्वां रक्षामि मम धनं देहि धनधान्या दिलोभोपकरणं वानृतमभिधाय छद्मभिर्यः परद्रव्यं गृह्णाति स छद्मधन- सहकारिसहितो बहुजनसमक्षं करचरणशिरश्छेदादिभिर्नानाप्रकरैर्वधोपायैः राज्ञा- इन्तव्यः ॥ १९३॥