अथ तिङ्क्षु विवेच्यानि ।
तत्र गणाधिकार: प्रथमः ।
१. अत्र भवान्साधु सन्दृभ्णाति१ वाक्यानीति जिज्ञासे केनात्र कर्म-
ण्यभिविनीतोऽस्ति२ ।
२. दृष्टिपूतं न्यसेत्पादं वस्त्रपूतं जलं पिबेत् (मनु० ६।४६) ।
३. पूर्वे यथाऽशासन्प्रजास्तथा नूतना अपि शिष्युश्चेत्साधीयः स्यात् ।
४. शत्रोरपि शुभं ध्याति शमदमादिसमन्वितः ।
५. रक्षांसि भीतानि दिशो द्रुवन्ति ।
६. सर्वोऽपि तत्त्वबुभुत्सया व्यापृणोति न च सर्वः सिध्यति ।
७. कांन्तिमत्तमं विलसिताधिकरणं ते करणमेवं निमेषेण भस्माव-
शेषं दृष्ट्वापि न दीर्ये । कठिनाः खलु स्त्रियः ।
८. संस्कृतं शिक्षितुं प्रयस, एष तवागमकालः ।
१. दृभी ग्रन्थे इति तुदादिषु पठ्यते । तेन शे प्रत्यये सन्दृ भतीति
साधु ।
२. असु क्षेपणे इति दिवादिः । तेन श्यनि न्यस्येत् इति स्यात् ।
३. शासु अनुशिष्टौ इत्यदादिः । तेन शपो लुकि लङि बहुवचनेऽशासु-
रित्येव साधु । सिजभ्यस्तविदिभ्यश्चेति झेर्जुस् ।
४. ध्यै चिन्तायामिति भ्वादिः । तेन शपि आयादेशे च ध्यायतीत्येव
साधु।
५. द्रु गताविति स्वादिः । तेन शपि गुणेऽवादेशे द्रवन्तीत्येव साधु ।
द्रुवन्तोति लिपिकरप्रमादः ।
६. पृङ् व्यायामे इति तुदादिषु पठ्यते । तेन शे रिङि इयङि च
व्याप्रियते इत्येव साधु ।
७. दृ विदारणे इति क्यादिः । कर्मकर्तरि लट् तेन यगात्मनेपदयोः
सतोर्विदीर्ये इति साधु । शुद्धे कर्तरि वा । ददृत् दृणातेर्दीर्यतेर्वेति
भाष्याद् दृ धातुर्दैवादिकोप्यस्तीत्याहुः ।
८. यसु प्रयत्ने दिवादिः । यसोनुपसर्गात् (३।१।७१) इति सोपसर्गात्त-
स्मात् शप् नेति प्रयस्येत्येव लोण्मध्यमैकवचने रूपं साधु ।१. ग्रथ्नाति । २. शिक्षितः ।