पृष्ठम्:शब्दापशब्दविवेकः.pdf/१०७

विकिस्रोतः तः
एतत् पृष्ठम् परिष्कृतम् अस्ति

केवमविभक्त्यधिकारः १०१


(ख) मयवादी ज्ञातः (द्विधारूढ गभ ग्रन्थिः) तदनु दिवसै: कैरपि तया (उत्तर०) । (ग) अल्पैरहोभिर्वयमेव तत्र गन्तारः (मुद्रा० ५, राक्षसोक्तिः)। ६४. दिवसे विंशतिः सर्गा गेया मधुरया गिरा (रा० ७।९३।१०) । (ख) न ह्यत्र बहुदिवसव्यापिनी गवेषणाऽन्वेषणा वाऽभिप्रता। तेनात्रात्यन्तसंयोगो, नास्ति, तदभावे केवलेऽपवर्गे तृतीयाया अप्र- सङ्गः । भावलक्षणा सप्तमौ तु साम्प्रतं स्यात् । (ग) अत्र सततगमनेन वयं तत्र प्राप्तास्म इत्यर्थश्चेत्स्यात्तृतीयो- पपत्तिमती स्यात् । नैषा विवक्षेति तृतीयाऽनुपपन्ना । भावलक्षणा सप्तमी तू प्रयोज्या। ६४. दिवसेन विंशतेः सर्गाणां गानं समाप्यमित्यर्थः । तेन तृतीयैव न्याय्या। इति केवल विभक्तिविवेचनम्