१०० शब्दापशन्दविवेके
५८. अक्षशब्दस्येन्द्रियसामान्याभिधायित्वेऽपि ईक्षितशब्दोपपदत्वा-
च्चक्षुषि वर्तत इति (भट्टि० ५।२४) जयमङ्गला-ग्रन्थः ।
५९. जनकस्य विजानत एव पुरोऽनल्पमर्थं भिक्षुकेभ्यो व्यतारीत् ।।
६०. संरम्भयोगेन भवैस्त्रिभिर्माम् उपेतम् (नारा० ११।६) ।
६१. चिन्तयित्वा मुहूर्त्तन प्रत्युवाच तपोधनम् (भा० शां० ३५।५१) ।
६२. पृथिव्यां नास्ति यूवतिर्विषमस्थतरा मया (भा० उ० १७५।२३) ।
६३. (क) दिनैः सप्तभिर्दुर्भिक्षदोषात्ते च विपेदिरे (कथा०) ।
ततश्चैष दिनैरल्पै विपत्स्यते (कथा० २९।१३८) ।
दिनैश्च तं वदन्ति स्म पुत्रो जातस्तवेति ते (कथा० ६१।२१) ।
मृते पितरि वत्सरैस्त्रिभिर्जातोस्मि (कथा० ६२।२२२) ।
५८. अक्षशब्द इन्द्रियसामान्याभिधायी सन्नपीति वक्तव्यम् । भाव-
लक्षणायाः सप्तम्या नैष विषय इति वाग्व्यवहारादर्शे कारक-
प्रकरणे विस्तरेण वर्णितम् ।
५९. अनादराधिक्य भावलक्षणे षष्ठी विधीयते । पुरः शब्दश्चेह
श्रूयते । तद्योगे षष्ठ्यपेक्ष्यते । उपपदविभक्तिर्भविष्यति । अना-
दरश्च गंस्यते ।
६०. यदि संरम्भयोगो भवत्रयं व्याप्नोदित्यर्थस्तीत्यन्तसंयोगे
द्वितीया साध्वी स्यात् । यदि तदविवक्षा तदाऽपवर्गे तृतीया ना-
साध्वी।
६१. अपवर्ग तृतीया (२।३।६) इत्यनेनापवर्गे फलप्राप्तौ द्योत्यायां
कालाध्वनोरत्यन्तसंयोगे तृतीया शिष्यते । अत्यन्तसंयोगमात्रे तु
द्वितीयैव विधीयते ।
६२. पञ्चमी विभक्ते (२।३।४२) इति शास्त्रेण मत् मत्त इति वा
विषमस्थतरेति वाच्यम् । तृतीया तु सर्वथा दुरुपपादा।
६३. (क) दिनै: सप्तभिदिनैरल्पैरित्युभे तृतीये अन्याय्ये । इहात्यन्त-
संयोगे नास्ति । न हि विपत्तिमरणं सप्त दिनानि व्याप्नोति न
चाल्पानि । मरणं प्राणत्याग: । स हि क्षणिकः क्षणव्यापी भवति ।
नहि कश्चित्सप्त दिनानि प्राणांस्त्यजति, कामं तावन्तं कालं
रुजापरीतो मरणासन्नस्तिष्ठेत् । वस्तुतोत्र भावलक्षणया
सप्तम्या विवक्षितोऽर्थो वक्तव्यः । दिनैश्च तं वदन्तीत्यत्राप्युक्त-
रीत्या तृतीयाया अप्राप्तिर्विज्ञेया ।