केवल विभक्त्यधिकारः ९९
५०. इदानीमहमागन्तुकानां श्रुत्वा पुरुषविशेषकौतूहलेनागतोस्मीमा-
मुज्जयिनीम् (चारुदत्ते) ।
५१. एतद्विषयविचारणा मासार्थमरुध्यत ।
५२. आकृतौ विप्राः कर्मणि तु वृषलाः ।
५३. फलायमानेष्वाम्रेषु गतः पक्वेष्वागतः ।
५४. बलिनियमनहेतोर्वामनः काननेऽस्मिन् ।
बलिनियमनपरः सन्ब्रह्मचारी चचार (चम्पूरा० १।४५।) ।।
५५. रामचन्द्रपुरीं प्राप्ता आदित्यैर्योजनस्तताम् (श्रीकेशवदिग्विजय-
सारे ३।२) ।
५६. प्रदीप एव प्रभवत्यन्धकारविनाशने ।
५७. मासैः षड्भिर्जरायुणा वीतः कुक्षौ भ्राम्यति दक्षिणे (भा० पु०
३।३१।४)।
५०. आख्यातोपयोगे इत्यनेनोपयोगे सत्याख्यातु: प्रवक्तुरपादानसंज्ञा
विहिता । उपयोगो नियमपूर्वकं विद्याग्रहणमित्युक्तम् । स चेह
नास्तीति सम्बन्धमात्रे आगन्तुकानामिति षष्ठी साध्वी ।
५१. मासमरुध्यतेति वक्तव्यम् । तादर्थ्याभावात् । अत्यन्तसंयोगे
द्वितीया ।
५२. प्रकृत्यादित्वाद् आकृत्येति कर्मणेति च वक्तव्यम् ।
५३. फलायमानेषु जातेष्वित्यर्थः । तेन भावलक्षणा सप्तमी स्थाने ।
५४. बलिनियमनहेतोरित्यत्र षष्ठी हेतुप्रयोगे इति षष्ठी न दूषणम् ।
समासस्तु दूषणम् । अल्पस्य हेतोरित्यत्रेव व्यासोक्तिर्व्यवहारानु-
पातिनी न पुनरल्पहेतोरिति समासोक्तिः। बलिनियमनं हेतुः ।
बलिनियमनस्य हेतोश्चेति समानाधिकरणे षष्ठ्यौ । पूरणगुरणेति
शास्त्रेण समानाधिकरणेन षष्ठीसमासो निषिद्ध इति शास्त्र-
मपि व्यवहारमनुगृह्णाति।
५५. आदित्यान् योजनानीत्येवं वक्तव्यम् । आदित्या द्वादश भवन्ती-
त्यादित्यशब्दो द्वादशसंख्यापरः । ततां विस्तीर्णामित्यर्थः । द्वादश-
संख्यापरोप्यादित्यशब्दोभिधेयलिङ्गं न गृह्णाति ।
५६. अलमर्थत्वात् प्रभवतियोगे चतुर्थ्या भवितव्यम् । अन्धकारविना-
शनायेति वक्तव्यम् ।
५७. षण्मासान् इत्यत्यन्तसंयोगे द्वितीयेव साध्वीति भागवतकारेण
तृतीयायाः प्रयुक्ति पाणिनीया न सहन्ते ।