९८ शब्दापशब्दविवेके
४१. दरिद्रानातुरान्निःशुल्कमुपचरन्तो भिषग्वरा यशसो भागिनो
भवन्ति ।
४२. शतशः संवत्सरादनुभूतां दासतां दूरीकृत्य साम्प्रतं स्वातन्त्र्यसुखम-
नुभवामः।
४३. षोडशाब्दे वय: प्राप्ते संज्ञायास्तत्पिता सुखी(भविष्यपुराणे प्रति-
सर्गपर्वणि ३।४।१८।४)।
४४. मासोऽयं माधवस्यासीत् । नवकुसुमविकासात्सौरभयोगेनायं सुर-
भिरित्यप्यभिधीयते ।
४५. परिहासविजल्पितं सखे परमार्थेन न गृह्यतां वचः (शा० २०१०)।
४६. वस्त्रेष्ववधीद् दासीं कृष्णः ।
४७. पश्यत एव हरति स्वर्णं स्वर्णकार इति पश्यतोहर इत्युच्यते ।
४८. भाषतो बहु काकस्य बलिनः पततां वराः । इदमूचुः स्म चक्राङ्गा
वचः काकं विहङ्गमाः (भारते कर्णपर्वणि ४१।२१)।
४९. रात्रौ रोचमान इन्दुः कस्य न प्रियः ।
४१. यशसि भागिनो भवन्तीति शिष्टजुष्टो व्यवहारः । न तस्य वाच्यपि
भागोस्तीत्यग्वर्णात् ।
४२. संवत्सरानित्यत्यन्तसंयोगे द्वितीयेष्यते । शतश इति शस्प्रत्ययः
द्वितीया बहुवचनस्य शसः स्थाने वेदितव्यः ।
४३. वयसीति वक्तव्यम् । भावलक्षणा सप्तमी ।
४४ मासोऽयं माधव इत्येवं वक्तव्यम् । उक्तो हेतुः (३० तमे वाक्ये)।
४५ परमार्थेनेति प्रकृत्यादित्वात्तृतीया साध्वी ।
४६. निमित्तात्कर्मसंयोगे इत्यनेन वस्त्रशब्दात्सप्तमी। संयोगशब्देन
चेह संयोगमात्रं गृह्यते न समवाय एवेति केचित् । तन्मतेनोदाह-
रणं बोपदेवे ।
४७. षष्ठी चानादर इति पश्यत इति षष्ठी । पश्यन्तमनाहत्येत्यर्थः ।
४८. काके बहु भाषमाणे इति तु युक्तम् । भावलक्षणाया: सप्तम्याः
प्रसङ्गः । तत्रानादराधिक्य एव षष्ठीविधानादनादरस्य चेहा-
प्रतीतेः षष्ठी दुरुपपादा।
४९. अत्र रुचिर्दीप्तौ वर्तत इति सम्प्रदानताया अप्रसङ्गः । प्रिय इति
कर्तरि कः प्रत्ययः, प्रीणातीति प्रियः । तद्योगे कस्येति कर्मणि
षष्ठी।