केवलविभक्त्यधिकारः ९७
३३. विलोक्यतां तावन्महात्मनामग्रेसरस्य श्रीमोहनदासकर्मचन्द्रस्य
दिव्यं निदर्शनम् ।
३४. इह भूतले घटो नास्त्यनुपलब्धेः ।
३५. पर्वतो वह्निमान् धूमात् ।
३६. स्वार्थस्य पङ्के निपतन्ति प्रायेण पुरुषाः ।
३७. स्रवति१ न गरलं वा पादपश्चन्दनस्य ।
३८. देशभक्तिप्रयुक्तेन तेन महाभागेन मिथः कलहस्योपशमाय प्राणा-
नामाहुतिर्दत्ता।
३९. घ्नतः पृष्ठं ददाति ।
४०. इदं च स्वेन स्वीकृतस्यार्थस्य विरुद्वमिति कथं नेक्षसे ?
३३. अग्रेसरः श्रीमोहनदासकर्मचन्द्रो दिव्यं निदर्शनमिति सामानाधि-
करण्येन वक्तव्यम् । तत्र भवान् मोहनदासः स्वयमेव निदर्शनं न
तु तत्सम्बन्धि किञ्चिदन्यत् ।
३४. विभाषा गुरणेऽस्त्रियामित्यत्र विभाषेति योगविभागादगुणेऽ
स्त्रियामपि हेतौ पञ्चमी ।
३५. इदं साधु । अव्यवहितपूर्वमुक्तेन हेतुनाऽगुणेपि हेतौ पञ्चमीति
धूमादिति साधु ।
३६. स्वार्थपङ्के इति समस्तरूपकेण स्वार्थे पङ्क इति व्यस्तरूपकेण
वा वक्तव्यम् । स्वार्थ एव पङ्क इति हि विवक्षति ।
३७. चन्दनः पादप एव तु भवति । तेन भेदिका षष्ठी नोपपद्यते ।
चन्दनकाष्ठमपि चन्दनमुच्यत इति पादपशब्दोऽर्थवान् ।
३८. प्राणा आहुतिर्दत्तेति वक्तव्यम् । प्राणा आहुतिरिति रूप्यन्ते ।
३६. ददातिरत्र न दाने वर्तते । न हि पृष्ठं दीयते नाम, किन्तहि भया-
द्रणाद् द्रुतेन योधेन पराङ्मुखीभावाच्छत्रोर्द्ग्गोचरी क्रियते ।
तेनात्र सम्बन्धमात्रे घ्नत इति षष्ठी युक्तरूपा।
४०. स्वीकृतेनार्थेन विरुद्धमिति वक्तव्यम् । अनुक्ते कर्तरि तृतीया ।
विरुद्धं व्याहतमित्यनर्थान्तरम् ।
१. अन्तर्भूतस्यर्थोयं बहुलं प्रयुज्यते शिष्टै: । अत्रार्थेऽस्मत्कृतिरनुवादकला
दृश्यताम् । वाग्व्यवहारादर्शे च धातोः सकर्मकत्वाकर्मकत्वे इत्यधिकरणे
उदाहृतयः प्रपञ्चिताः ।