९६ शब्दापशब्दविवेके
२५. महात्मनो दर्शनाय समुत्कण्ठमाना लोका दूरविदूरेभ्यः प्रदेशेभ्य:
संनिपतिताः।
२६. मदनपरवशापि नात्मने प्रभवामि । जनको हि ममेष्टेऽस्य शरी-
रस्य।
२७. इतः पूर्वस्यां दिशि नव क्रोशान्विदूरो मे ग्रामः ।
२८. महात्मानं दर्शका लोका भूयस्यां सङ्ख्यायां समवेताः ।
२९. अवरङ्गजीवो हि भारतं वर्ष वर्षाण्येकपञ्चाशदशिषत् ।
३०. रविवारस्य दिनम्, डाक्टरमहोदय: कालेजकार्यनिर्मुक्तः सुहृज्-
जनेन गोष्ठीसुखमनुभवति ।
३१. कालो हि बलिनां बलीयान् ।
३२. देवदत्तो व्यायामस्य परमरसिकोऽभवदिति दृढसन्धिबधान्यस्य
गात्राणि ।
२५. दर्शनस्येति षष्ठी युक्ता। अधोगर्थदयेशामिति ।
२६. प्रभ्वादियोगे स्वाम्ये षष्ठोति. दीक्षितवचनादात्मन इति वक्त-
त्यम्।
२७. नवक्रोशानिति द्वितीयाऽत्यन्तसंयोगे। कालाध्वनोरत्यन्तसंयोग
इति । वैदूर्येण गुणेन नवक्रोश्यात्मकस्याध्वनोभिव्याप्तिः। विदूर-
शब्दत्यागे तु तद्युक्तादध्वनः प्रथमासप्तम्याविति नवक्रोशाः, नवसु
क्रोशेष्विति वा वक्तव्यम् ।
२८. भूयस्या संख्ययेतीत्थम्भूतलक्षणे तृतीया न्याय्या।
२९. एकपञ्चाशतमित्यत्यन्तसंयोगे द्वितीया प्रयोक्तव्या ।
३० अद्य रविवार इति व्यवहार्यम् । दिन-शब्दस्तु रविवार इत्यने-
नैव गतार्थः । षष्ठी तु सुतरामनुपपन्ना। दिनमिति रविवारस्य
नाऽवयवः, न चाप्यतो भिन्नं किञ्चिदस्ति । येन षष्ठी सुप्रयुक्ता
स्यात् ।
३१ बलिनामिति निर्धारणे षष्ठी। ईयसुंस्तु विभज्योपपदे विहितः ।
न चेह विभज्योऽर्थोऽस्ति, निर्धरणाश्रय एवास्तीति इष्ठन्नेव
युक्तः । तेन बलिष्ठ इति वक्तव्यम् ।
३२. व्यायामे परमरसिक इति विषये कारकसप्तमी साधुः ।