पृष्ठम्:शब्दापशब्दविवेकः.pdf/१०१

विकिस्रोतः तः
एतत् पृष्ठम् परिष्कृतम् अस्ति

केवलक्भिक्त्यधिकारः ९५


१६. नास्ति पामरायाऽपि तस्य प्रयोजनम् । १७. ते महता कालेन पुत्त्रागमं प्रतीक्षमाणाश्चिन्तापरीता: स्थिताः । १८. एतस्मा आविष्काराय तस्य महाभागस्याधर्णा वयम् । १९. यदाऽस्य तापसस्य मर्त्यलोकपरित्यागस्य दश दिनान्येवाव- शिष्टानि तदाऽयं स्वशिष्यान् समाहूय सविस्तरं कृत्यमनुशशास्। २०. धर्मभावनया मनोविनोदभावनाया अन्तरं व्यक्तमेव । २१. समाजवादस्येदानीं भारते नास्ति प्रयोजनम् । २२. बौद्धग्रन्था विक्रमात् सार्धवत्सरशतं पश्चात् ताम्रपत्रेषु लिखिताः । २३. सर्वेषु गुणेषु प्रकामं पूर्णोऽयं कुमारः कस्य न प्रियः । २४. विचार्यमाणे सर्वमप्येतत् संसारासारतां बोधयति नः ।

१६. पामरस्यापि तेन प्रयोजनमिति वाग्व्यवहारः । १७. महान्तं कालमित्यत्यन्तसंयोगे द्वितीयेष्टा । १८. तादर्थ्याभावादाविष्काराच्चतुर्थ्या अप्रसङ्गः । आविष्कारस्य कृते, आविष्कारकारणादिति वा वक्तव्यम् । २९. परित्यागस्येति षष्ठी सम्बन्धे साध्वी । सप्तम्या तु नार्थः । २०. धर्मभावनाया इति षष्ठी वक्तव्या । अन्तरमिति भेदमाह । उभे अपि भावने भेद्यभेदकभावेन मिथः सम्बद्धे इत्युभयत्र षष्ठी युक्ता। तथा च मालविकायां तव च मम च समुद्रपल्वलयोरि- वान्तरम् इति प्रयोगः। २१. समाजवादेनेति तृतीयैव साध्वी । गम्यमानापि क्रिया कारक- विभक्तेः प्रयोजिकेति वचनात् । २२. विक्रमादूर्ध्वं सार्धे वत्सरशते इत्येवं वक्तयम्१ । पश्चाच्छब्दश्च हेयः । २३. सर्वेषां गुणानां पूर्ण इत्येवं व्यवहारः२ । २४. नात्र भावलक्षणायाः सप्तम्या विषय इति विचार्यमाणमिति वक्तव्यम्।

१. व्यवहारनैयत्ये च प्रमाणनिचयो वाग्व्यवहारादर्शे ३९ तमे पृष्ठे 'द्रष्टव्यः । २. अत्रापि व्यवहारस्थ प्रायिकत्यप्रमाणानि वाग्व्यवहारादर्शे ३२ तमे पृष्ठे द्रष्टव्यानि ।