९४ शब्दापशब्दविवेके
७. प्राङ्विवाकमतानुसारं व्यवहारान्व्यवस्थापयेन्नृपो न तु स्वमतेन
केवलेन ।
८. एतावत्पर्यन्तं समासतो१ वर्णिता वर्णधर्माः, आश्रमधर्मान्सम्प्रति
वर्णयिष्यामः ।
९. गुणकर्मस्वभावेषु यः सर्वेभ्यः सत्तमः स नाम नृतमः ।
१०. विदेशस्थो देवदत्तश्चिरस्य दृष्टाया अम्बाया: संजानाति२ ।
११. नक्तं दिनं च परप्रतारणोदन्यत् तेषां कृत्यं नास्ति।
१२. अयं साधुरयं चानेन साधुतर इति कथं जानीमः ।
१३. किंमिति वेदनिन्दाया न लज्जसे, गुरुजनापेवादेन वा नाऽपत्रपसे ?
अतीन्द्रियेष्वप्यर्थेषु स्वमनीषिकामेव प्रमाणी करोषीति हा हतो
ऽसि !
१४. जन्मना जायते शूद्रः संस्कारैर्द्विज उच्यते ।
१५. त्वं ह्यो नोपातिष्ठथाः । तत्कस्य हेतोः ।
७. प्राङ्विवाकमतानुसारेणेति वक्तव्यम् । प्रकृत्यादित्वात्तृतीया च
बोध्या । द्वितीया तु सर्वथाऽनुपपन्नेति हेया । मतस्यानुसारो
मतानुसार इति षष्ठीसमासः ।
८. एतावत्पर्यन्तमिति बहुव्रीहेः क्रियाविशेषणत्वेन प्रयोगः । तेन
द्वितीया साध्वी ।
९. गुणकर्मस्वभावैरिति हेतौ तृतीयया वक्तव्यम् । निर्धारणे
षष्ठीसप्तम्यौ भवत इति सर्वेषां सर्वेष्विति वा प्रयोक्तव्यम् ।
१०. अम्बाया इत्यधीगर्थदयेशां कर्मणीति कर्मणि शेषत्वेन विवक्षिते
षष्ठी ।
११. नक्तमित्यधिकरणवृत्ति दिवेत्यपि । तेनाहर्निशमिति वा नक्तं-
दिवमिति वा प्रयोज्यम् ।
१२. पञ्चमी विभक्त इत्यस्मात्साधुतर इत्येव साधु ।
१३. वेदनिन्दयेति हेतौ तृतीयेष्यते।
१४. जन्मनेति प्रकृत्यादित्वात्तृतीया ।
१५. सर्वनाम्नस्तस्तृतीया चेति सूत्रेण किमः सर्वनाम्नः षष्ठी, तत्र सामा-
नाधिकरण्याद्धेतुशब्दादपि षष्ठी । चतुर्थी तु व्यवहारानभिज्ञस्य
शोभते ।१. संक्षेपेण । २. आध्यायति, उत्कण्ठापूर्वकं स्मरति ।