पृष्ठम्:शब्दापशब्दविवेकः.pdf/९९

विकिस्रोतः तः
एतत् पृष्ठम् परिष्कृतम् अस्ति

केवलविभक्त्यधिकारः ९३


५१. अन्तरेणाञ्जलिं बद्ध्वा लक्ष्मणस्य प्रसादनात् (रा० ४।३२।१७) । ५२. (क) अनन्या हि मया सीता भास्करस्य प्रभा यथा (रा.६।११८।१८)। (ख) भूतेष्वभयदानेन नान्या चोपकृतिर्मम (कथा० २७।२४) । केवलविभक्त्यधिकारस्तृतीयः । १. अद्य स्वतन्त्रं भारतं वर्षं वर्षादधिक कालो गतः । २. तस्योपस्थिते सत्येव समृद्धानि१ नः कार्याणि । ३. आपस्तु परमाः पूताः पेयाः स्नानीयाश्च भवन्ति । ४. वर्षद्वयाद्रुज्यतेऽयं वराकः, न जाने कदा कल्यो२ भविष्यति । ५. अद्यत्वे त्रिषु जातिसहस्रेषु विभक्ता हिन्दव ऐक्यमनश्नवानाः परैः सहेलं शक्या आस्कन्तुम्३ । ६. य आत्मानं व्यकत्थन्त तेऽध्वंसन्त । ५१. अन्तरान्तरेण युक्त इति प्रसादनमन्तरेणेति वक्तव्यं प्रसादन- शब्दाद् द्वितीयैवानुज्ञायते शास्त्रेण । पञ्चमीप्रयोगस्त्वनक्षरेण लिपिकरेण कृतः स्यात् । ५२. (क) अत्र अन्याराद् (२।३।२९) इत्यादिनोपपदविभक्तिः पञ्चमी कुतो न । उच्यते। इह अनन्येत्यभिन्नार्थे प्रयोगः । सहार्थे तृतीया साध्वी । तेन सहाभेदमापद्यत इत्यादिषु तृतीयादर्शनात् । (ख) अत्रापि पूर्वोक्त एव समाधिः । इत्युपपदविभक्तिविवेचनम् । १. स्वतन्त्रस्य (सतः) भारतस्य वर्षस्येति शेषे षष्ठी साध्वी । कर्म- णोऽभावात्कर्मणि द्वितीयाया अत्यन्तमप्राप्तेः । २. यस्य च भावेनेति तस्मिन्नुपस्थिते इत्येवं न्यसनीयम् । उपस्थान- मुपस्थितिरिति भावक्तान्ते तु तस्येति शैषिकी पष्ठी साम्प्रतम् । ३. परमम् इति क्रियाविशेषणमिष्यते । ४.(अद्य) वर्षद्वयमिति वक्तव्यम् । अत्यन्तसंयोगे द्वितीयाया: प्रसङ्गो न पञ्चम्याः। ५. त्रिषु जातिसहस्रोष्विति साधु । वैषयिकेऽधिकरणे सप्तमी। ६. कत्थ श्लाघायामित्यकर्मको दृष्टः । तेन य आत्मना व्यकत्थन्तेति हेतुतृतीया प्रयोक्तव्या । अर्थान्तरे तु सकर्मकोऽपि दृश्यते । तथा च भारते प्रयोगः-सदा भवान्फाल्गुनस्य गुणैरस्मान्विकत्थते (वि० ३६।४०) इति । गर्हते इत्यर्थः ।१ फलितानि । २. वार्तः, स्वस्थः। ३. आक्रमितुम् ।