९२ शब्दापशन्दविवेके
४४. आदाय मार्गशीर्षाच्च द्वौ द्वौ मासावृतुः स्मृत: (अमरोद्धाटने
कात्यवचनम्)
४५. तस्य परमाम्रोडितम् (पा० ८।१।२) ।
४६. बाल्योपरि कौमारं तस्योपरि च यौवनमित्यवस्थाक्रमः ।
४७. इड् दीर्घश चिण्वदिड् लत्वढत्वे द्वित्वत्रिकं तथा । इत्यष्टानां
विकल्पेन चतुर्भिरधिकं शतम् (सि० कौ० भाव-कर्म-प्रक्रियायां
दीक्षितः)।
४८. आपरमाणोरा च भूलोकम् (उदयनकृतकिरणावल्याम्) ।
४९. नानादेशसमुत्पन्ना ब्राह्मणा: क्षत्रिया विशः ।
चक्राङ्किता प्रवेष्टव्या यावदागमनान्मम ।।
५०. सत्यन्यस्मिन्यस्य पूर्वो नास्ति स आदिः (पा० १।१।२१ सूत्रे
भाष्ये) ।
४४ प्रारभ्यशब्दवद् प्रादायशब्दोऽपि प्रभृतिपर्याय इति तद्योगे
पञ्चमी साध्वी।
४५ अवयववृत्तिभिर्दिक्शब्दैर्योगे षष्ठी नासाध्वी । तत्रावध्यवधिमद्-
भावाभावात् ।
४६. बाल्यस्योपरीत्येवं वक्तव्यम् । उक्तो हेतुः ।
४७. अधिकयोगे सूत्रकारस्य पञ्चमी सप्तम्यावेवेष्टे इति तृतीया
दुर्लभा । यस्मादधिकं यस्य चेश्वरवचनम् (२।३।९) इति सूत्र-
कारप्रयोगः पञ्चम्या ज्ञापकः । तदस्मिन्नधिकमिति दशान्ताड्ड
(५।२।४५) इति च सप्तम्याः ।
४८. आ च भूलोकादिति साधु स्याद् व्यासे । आङ्मर्यादाभिविध्योरिति
सूत्रेणाव्ययीभावे तु आभूलोकमिति । वाचि शिथिला नैयायिका
ज्योतिषिकाश्च ।
४६. यावद्योगे द्वितीया ततोऽन्यत्रापि दृश्यत इति वचनात् । द्वितीयैव
तु प्रयोगेषु यत्र तत्र दृश्यते ।
५०. यस्य पूर्वं इत्यादिरनवधानकृता कस्यचिदुक्तिः । अपपाठ एषः ।
भाष्ये तु सत्यन्यस्मिन् यस्मात्पूर्वं नास्तीत्यादिः पाठः स्थितः ।
तत्र दिक्छब्दयोगे पञ्चमीति नात्र किमपि वक्तव्यमस्ति ।