उपपदविभक्त्यधिकार: ९१
३४. हा कष्टं किं करोमि प्रियतमविरहे कामदूतो वसन्तः ।
३५. हा पितः क्वासि हे सुभ्रू बह्वेवं विललाप सः (भट्टि०) ।
३६ उपर्युपरि बुद्धीनां चरन्तीश्वरबुद्धयः (जातकमालायाम्) ।
३७. तुलां यदारोहति दन्तवाससा (कुमारे) ।
३८. पूर्वं कायस्येति पूर्वकायः । एवमपरं कायस्येत्यपरकायः ।
३९. उत्तरेऽस्य भारतस्य त्रिविष्टपम् ।
४०. द्विविधं हि कारणम् । उपादानकारणं सहकारिकारणं च । तत्र
यत्कार्येणाभिन्नदेशं तदुपादानकारणम् ।
४१. यदि वेदाः प्रमाणमिति वंदन्नेव भट्टकुमारिलः पर्वतशिखराद-
धोऽपतत् ।
४२. सूर्यं परितः पृथिवी तस्याश्च परितश्चन्द्र: परिक्रमं करोति ।
४३. अद्य प्रभृत्यवनताङ्गि तवास्मि दासः (कु० ५।८६)। :-
३४. हाप्रतियोगेष्वपि दृश्यत इति कष्टमित्यत्र द्वितीया।
३५. हाशब्दोऽयं शोकवचनः । तेन कान्तारे पित्रादिः सम्बोध्यते । तत्र
सम्बोधनप्रथमायां प्राप्तायां हाप्रतियोगेष्वपीत्यस्यारम्भेऽपिशब्द-
स्य व्यभिचारार्थत्वात्सम्बोधने प्रथमापि भवतीति दुर्घटवृत्तिः ।
३६. द्वितीयाऽम्रेडितान्तेष्विति बुद्धीरिति युक्तम् । उपर्यध्यधसः
सामीप्ये (८।१७), इत्यनेनात्राम्रेडनं न, सामीप्यानवगमात्, किं
तर्हि वीप्सायामिति चेत् षष्ठयपि समाहिता भवति ।
३७. तौल्येऽत्र तुलाशब्दः । तुल्यार्थैरिति सूत्रे तु तुल्यार्थस्य तस्य
पर्युदासात्तृतीया नानुपपन्नेति मल्लिनाथ: ।
३८. दिक्छब्दयोगेऽन्यारादिति पञ्चमी विहिता । तस्य परमाम्रेडि-
तम् (८।१।१२) इति निर्देशादवयवाचिना दिक्छब्देन योगे
पञ्चम्यभाव इति रक्षित इति दुर्घटवृत्तिः ।
३९. उत्तरमस्माद् भारतात् त्रिविष्टपमित्येव न्यसनीयम् ।
४०. कार्येणाभिन्नदेशमित्यत्र सहार्थे तृतीया वेद्या ।
४१. पर्वतशिखारस्याध इति साधु । साधुत्वे हेतु: पूर्वमसकृदुक्ता ।
४२. तां च परित इत्येव साधु ।
५३. कार्तिक्या: प्रभृतीति भाष्यकारवचननामाण्यात्प्रभृतियोगे पञ्चमी
भवति । अद्यशब्दस्त्वधिकरणशक्तिः । इहात्र पञ्चम्यर्थं लक्षय-
तीति नात्र किमपि वाच्यमस्ति ।