९० शब्दापशन्दविवेके-
२५. तस्याधस्ताद्राजमार्गस्योभयतो य आपणास्तेष्वयं श्रेष्ठी स्वामी ।
२६. अतोऽस्माभिस्तथा स्थेयं यथा द्वात्रिंशतो दन्तानामन्तरा सेयं
जिह्वा ।
२७. शिरीरेखायाः शून्या इमा अक्षरपङ्क्तयः शिरोवेष्टनविरहिताः
कुलाङ्गना इव न शोभन्ते ।
२८. रामस्य वनं प्रति प्रस्थानस्योत्तरं१ विश्वस्तेवाभूदयोध्या ।
२९. तदन्तरस्य सर्वस्य तदु सर्वस्यास्य बाह्यतः (ईश० उ० ५) ।
३०. गुरोः प्रणामादनु स नीचैरासनमध्यास्त ।
३१. अध्यापकेन सर्वत्र समं वर्तितव्यम्, नैकेनच्छात्रेण सह पक्षपातो
युक्तः।
२२ माता सुताभिर्मधुरं व्यवहरति, तथाऽपि तास्तस्यामुद्धतं२ वर्तन्ते ।
३३. कार्यार्थमुपेतो दूतो गां३ गतेन मौलिना प्रभुपादपङ्कजयोः प्रणम्य
सिंहासनमधोऽतिष्ठत् ।
२५. राजमार्गमुभयत इति वक्तव्यम् । तेष्वित्यत्र स्वामीश्वराधिपति-
दायादेत्यादिना स्वामिशब्दयोगे सप्तमी साध्वी।
२६. दन्तानिति द्वितीया साध्वी । उक्तो हेतुः ।
२७. पूर्वसदृशसमोनार्थत्यादिनां समाससूत्रेण ऊनार्थयोगे तृतीया
ज्ञापिता, तेन शिरोरेखयेति वक्तव्यम् ।
२८. प्रस्थानादुत्तरमित्येव साधु ।
२६. सर्वस्येति शैषिकी षष्ठी । बहिर्योगे पञ्चमी उपपदविभक्तिरुक्ता,
इह तु बाह्यत इति पदं श्रूयते ।
३०. प्रणामस्यानु इति वक्तव्यम् । उक्तो हेतुः ।
३१. अत्रोत्तरार्द्धे साहचर्यस्यानभिप्रेतत्वाच्छात्रेण सहेत्ययुक्तो न्यासः ।
'नकस्मिरछात्रे इति विषयसप्तमी प्रयोक्तव्या ।
३२. सुताभिरित्यत्र सहार्थे तृतीया शक्योपपादयितुम् । सप्तमी वाs-
श्रेया । सप्तम्येव च श्रेयसी । कार्यविनिमयेन मयि व्यवहरत्यना-
त्मज इति मालविकायां कालिदासप्रयोगः ।
३३. सिंहासनस्याध इति वक्तव्यम् । अस्तातेरर्थेऽसिप्रत्ययान्तोधः-
शब्दः।१. विधयेव २. सदर्पम् । ३. भूमिम् ।