पृष्ठम्:शब्दापशब्दविवेकः.pdf/९५

विकिस्रोतः तः
एतत् पृष्ठम् परिष्कृतम् अस्ति

उपपदविभक्त्यधिकारः ८९


१७. दन्तमूलादुपरिष्टादुच्छूनः प्रदेशो वर्ल्स इत्युच्यते । १८. सन्ततेः परिणयननिर्वृत्तिमेव तस्याः प्रति स्वस्य परं कृत्यं प्रपश्यन्ति प्रायशो लोकाः । १९. न च बहवो वैयाकरणास्तुलामारोहन्ति दाधिमथैस्तत्रभवद्भिः श्रीशिवदत्तैर्महामहोपाध्यायैः । २०. महाकविभ्यः पश्चात्कवयः, ततः कविपाशा१ अजायन्तेति क्रमिको ह्रासः कवितायाः । २१. अनु रोगिमरणं प्रदिश्यमानं महौषधं किंफलकं भवेत् ? २२. दक्षिणतो विद्याशालाददूरे२ शिल्पशालेति प्रशमभङ्गाय कल्पते । २३. जलदा अपि ज्वलदङ्गारवृष्टिसृष्टौ प्रभवन्ति कामुकानाम् । २४. इदं देवदत्ताय हितकरं भवतीति नैतावता यज्ञदत्तायाऽपि हितं भवेत्। १७. दन्तमूलस्येति साधु । उक्तो हेतुः । १८. ताम्प्रतीति वक्तव्यम् । १९. सदृशार्थैरतुलोपमाभ्यां तृतीयाऽन्यतरस्यामित्यत्रोपमातुलाशब्दो सदृशपर्यायौ पर्युदस्तौ । सादृश्येऽर्थे वर्तमानयोस्तयोर्योगे तृतीया स्यादेवेति सर्वमनवद्यम् । २०. पश्चादित्यस्तातेरर्थे निपातितम् । षष्ठ्यतसर्थप्रत्ययेनेति तद्योगे षष्ठ्येव न्याय्या। २१. लक्षणेत्थम्भूताख्यानेत्यादिसूत्रेणानोः कर्मप्रवचनीयता न। अनुर्लक्षरणे इत्यनेनापि न । लक्षणाद्यर्थस्याभावात् । तेन शेषे षष्ठ्याऽनु रोगिमरणस्येति वक्तव्यम् । २२. अतसर्थप्रत्ययेन योगाद् विद्याशालस्येति वक्तव्यम् दक्षिणो- त्तराभ्यामतसुच् (५।३।२८) इत्यनेन अतसुच् । २३. प्रभवतेरलमर्थत्वात्सृष्टये इति साधु । २४. समासगतेनापि हितशब्देन देवदत्तस्य योगोऽस्तीति चतुर्थी नानु- पपन्ना।१. कुत्सिताः कवयः । याप्ये पाशप् । २. विभाषा छायासुराशालानिशानम् इति तत्पुरुषो वा नपुंसकम् ।