पृष्ठम्:शब्दापशब्दविवेकः.pdf/९४

विकिस्रोतः तः
एतत् पृष्ठम् परिष्कृतम् अस्ति

८८ शब्दापशब्दविवेके


९. धिगस्तु मम वीर्यस्य यत्त्वं जीवसि रावण । १०. सूर्यादयो ग्रहास्तापप्रकाशादिनान्यत् किमपि कर्तुं नालमिति केचित्प्रतिपन्नाः१ । ११. दुर्जनैः पृथक् तिष्टन्तु सज्जनाः । १२. यो दरिद्रान् बिभर्मीति तान्प्रति धनं ददाति स आत्मन एवोप- करोति । १३. केचिदाहुर्भरतवर्षादधः पातालम् अद्यत्वेऽमेरिकेति संज्ञायते । १४. जानुभ्यामुपरि शरीराङ्गं सक्थीत्युच्यते । १५. अस्मभ्यं तु न किञ्चित् प्रतिभाति ब्रह्मणो विनेति रूढिसाधवः । १६. नैतद्युक्तं बिम्बेन विसंवदेत्२ प्रतिबिम्बमिति । ६. उभसर्वतसोः कार्येति वचनाद् धिग्योगे द्वितीया युक्तेति वीर्य- मित्येव साधु ।

१०. प्रकाशादेरन्यद् इति पञ्चम्येवान्याराद् इति सूत्रविहिता युक्ता। ११. पथग्विनानानाभिस्तृतीयान्यतरस्याम् इति पृथग्योगे तृतीया साध्वी पक्षे द्वितीयापञ्चम्यौ। १२. उपपदविभक्तेः कारकविभक्तिर्बलीयसीति सम्प्रदाने चतुर्थी प्रयोज्या, प्रतिशब्दश्च त्याज्यः । १३. अध इत्यस्तातेरर्थेऽसिप्रत्ययान्तः । तद्योगे षष्ठ्यतसर्थप्रत्ययेनेति षष्ठ्येव युक्ता न पञ्चमी। १४. उपरीति उपर्युपरिष्टात् (५।३।११) इत्यस्तातेरर्थे निपातितम् । तेनात्रापि षष्ठ्येव युक्ता । जान्वोः, जानुनोरिति वा वक्तव्यम् । १५. ततोऽन्यत्रापि दृश्यत इति दृशिग्रहणस्य प्रयोगानुसारित्वात्प्रति- भातियोगे द्वितीया। भातिना युक्त एव प्रतिः सर्वत्र दृश्यते न चायुक्तो व्यवहितो वेति नायं स्वतन्त्रोनुपसर्गो निपातो न वा कर्मप्रवचनीयः । यथा न साम्परायः प्रतिभाति बालम् इति कठो- पनिषदि । त्रितं कूपेऽवहितमेतत्सूक्तं प्रतिबभाविति च निरुक्ते । १६. विसंवादो भेदः । तेनान्यारादिति सूत्रेण बिम्बशब्दात् पञ्चमी युक्ता । कमलानां मनोहराणां रूपाद् विसंवदति शीलमिति कविवाक्ये यथा ।१. कर्तरि क्तः । व्यवसितादिषु क्तः कर्तरि चकारादिति वामनसूत्रम् । २. विसदृशं स्यात् ।