उपपदविभक्त्यधिकारो द्वितीयः ।
१. ऊर्णा मेषादिलोम्नि स्यादावर्ते चान्तरा भ्र वोः (अमरकोषे)।
२. मणिबन्धादाकनिष्ठं करस्य करभो बहिः (अमरकोषे)।
३. उत्तरं यत्समुद्रस्य हिमाद्रेश्चैव दक्षिणम् । लोकः स भारतं वर्षम् ।
४. परितः पतन्ति दुष्कृतां विपदः ।
५. नान्यत्ते क्षमं मन्येन्तरेण प्रसादनाद् गुरोः ।
६. इदं च मां भाति न१ ह्युपधिसमाश्रयेणात्यन्ताय प्रैधते नरः ।
७. न ऋते पुरुषकारं सिध्यन्ति मनोरथाः ।
८. यदत्र मामभिस्यात्२ तन्मे देहि । नाहं ततोऽधिकं मार्गाभि:।
१. अन्तरान्तरेण युक्ते इति भ्रुवाविति द्वितीया युक्ता । भ्र वो-
रित्यपपाठः ।
२. बहिर्योगेऽपपरिबहिरञ्चवः पञ्चम्या इति सूत्रज्ञापिता पञ्चमी
प्रायेण दृश्यते । ज्ञापकसिद्धं न सर्वत्रेति क्वचिन्नेति करस्येति
षष्ठी समाधेया।
३. समुद्रादिति दिक्छन्नयोगलक्षणा पञ्चमी प्रयोक्तव्या । उत्तरं
दक्षिणं इत्यत्र नपुंसकत्वमपि दुःखाकरम् । एवं तर्हि पाठ: परि-
वर्तनीयः--उत्तरो यस्समुद्राच्च हिमाद्रेश्चैव दक्षिण इत्यादि ।
४. अभितः परित इत्यादिवचनेन परितोयोगे द्वितीयैव साध्वीति
दुष्कृत इति वाच्यम् ।
५. प्रसादनमिति वक्तव्यम् । अन्तरेणेत्यस्य स्थानेऽन्यत्रेति वा प्रयो-
क्तव्यम्।
६. भातिरकर्मक इति ममेति वक्तव्यम् ।
७. अत्र द्वितीयाऽपाणिनीया। कातन्त्रकारस्तु ऋतेयोगे द्वितीये-
त्यसुसूत्रत् इति तन्मतेन साधु ।
८. अभिरभागे इति भागेर्थेऽवस्थितोपसर्गसंज्ञा । तेन कर्म प्रवचनीय-
त्वाभावात्तन्निमित्ता' द्वितीया नोपपद्यते । उपसर्गनिमित्तं षत्वं
चोपपद्यते । तेन ममाभिष्यादिति वक्तव्यम् ।
१. उपधि: कपटम् । २. अभिरत्र भागे वर्तते ।