पृष्ठम्:शब्दापशब्दविवेकः.pdf/९२

विकिस्रोतः तः
एतत् पृष्ठम् परिष्कृतम् अस्ति

८६ शब्दापशब्दविवेके


३१८. ज्येष्ठं प्रति यथा राज्यं न देयं मे कथंचन (भा० आदि० ८५- २१)। ३१९. स सत्यवादी वितथाद् विरुद्धः (तुलसी०१।३२) । ३२०, यद्वै यज्ञेऽकुशला ऋत्विजो भवन्त्यचरितनो ब्रह्मचर्यम् (गो० ब्रा० । पू० १।१३) ३२१. प्रेक्षागारं जगामाशु मञ्चानामवलोककः (हरि० २।२८।५) । ३२२. स मया द्वादशसुवर्णभारेण दण्ड्यः (दूत० १) । - ३१८. उपपदविभक्तेः कारकविभक्तिर्बलीयसीति वैयाकरणा: परि- भाषन्ते । अयं तु सम्प्रदाने 'कारकविभक्तिं चतुर्थीमकृत्वा प्रति- योगे द्वितीयामाश्रयति, तद् वैयाकरणा न सहन्ते । ३१९. वितथं विरुन्धे इति वक्तव्यम् । रुधिः 'सकर्मकः तेनाऽस्थाने तृतीया । ३२०. क्तस्येन्विषयस्य कर्मण्युपसङ्ख्यानम् इति ब्रह्मचर्ये इति वक्तव्यम्। ३२१. मञ्चानवलोकिष्य इति जगामेत्यर्थः । तेन अकेनोर्भविष्यदाध- -मर्ण्ययोरिति मञ्चानवलोकक इत्येवं वक्तव्यम् । ३२३. दण्डिग्रहणार्थको विकर्म कैः। गौणे कर्मणि दुह्यादेरिति गौणे कर्मणि लादयः । ण्यता कर्मण उक्तत्वात्ततः प्रथमा । 'प्रधाने कमणिऽनुक्ते द्वितीयैव तेन सुवर्णभारम् इति साधु स्यात् । इति कारकविभक्तिविवेचन समाप्तम् ।