पृष्ठम्:शब्दापशब्दविवेकः.pdf/९१

विकिस्रोतः तः
एतत् पृष्ठम् परिष्कृतम् अस्ति

कारकविभक्त्यधिकारः ८५


३१३. रागादिभिर्नि:स्पृहः (मोह०-८।३२) । ३१४. स्फुटमनभिमतं प्रौढवाराङ्गनाभिः (मोह० २।४२) । ३१५. युग्मं युग्मं दम्पतीनां तदानीं लाजाहोमः कारितो वेदविद्भिः (मोह० ४।३५) । ३१६. वृन्दारकाः कुसुमोत्करैः । शिरसि भवतो हर्षावर्षन्ति ॥ (नारा० ५०।५)। ३१७. एतानि याचकमिह द्विजवेषगूढं मा लब्धकामममराधिपतिं कृथास्त्वम् (चम्पू० ५।८४) । ३१३. रागादिभिरिति तृतीया दुष्यति। कर्तृ करणयोस्तृतीया भवति हेतौ वा, क्वचित् प्रकृत्यादित्वाच्च । अत्र कर्बादीनामभावात् तृतीयाया अत्यन्तमप्रसङ्गः । विषयेऽधिकरणे सप्तमी वक्तव्या। ३१४. प्रौढवाराङ्गनाभिरिति तृतीयाप्यप्रसक्ता । शास्त्रविरोधिनी चेयम् । अनभिमतमित्यत्र वर्तमाने क्तः । क्तस्य च वर्तमान इति षष्ठी प्रयोक्तब्या। ३१५. युग्ममित्यादिः सर्वो न्यासः शास्त्रं विरुन्धे । हृनोरन्यतरस्या- मिति करोतेरणौ कर्तुर्णौ पाक्षिकं कर्मत्वं विधीयते । तदिदं प्रयोज्यं कर्म भवति । तेनाणो कर्तुः कर्मत्वपक्षे युग्मं युग्मं (प्रथमान्तं) लाजाहोमं (द्वितीयान्तं) कारितमिति वा वक्तव्यम् । प्रयोज्यकर्मण्यन्येषां ण्यन्तानां लादयो मता इत्युक्तेः । वेदविद्भि- र्युग्मेन युग्मेन (अनुक्ते कर्तरि तृतीया) लाजाहोम: कारित इति वा । गत्यन्तरं नास्ति । ३१६. अंस्थाने तृतीया। वर्षते: सकर्मकत्वात्कुसुमोत्करानिति तु साधु स्यात् । अपि वा कुसुमोत्करैरभि वर्षन्ति शिर इति वक्तव्यम् । एवं हि व्यवहारोऽनुसृतो भवति । ३१७. एतानीति कर्मणि द्वितीया । कृद्योगलक्षणा षष्ठी कुतो न । अत्र टीकाकृदाह-याचकं याचिष्यमाणम् । अकेनोर्भविष्यदाधमर्ण्ययो: (२।३।७०) इति षष्ठीनिषेध इति । तन्न विचारसहम् । क्रियायां क्रियार्थायामुपपदे सत्येव भविष्यत्ताप्रतीतेर्नायमकेनोरिति प्रतिषेधस्य विषयः । महात्मानं दर्शको व्रजति, केदाराँल्लावकों यातीत्यादिष्वेव षष्ठीनिषेध उपपन्नो भवति ।