पृष्ठम्:शब्दापशब्दविवेकः.pdf/९०

विकिस्रोतः तः
एतत् पृष्ठम् परिष्कृतम् अस्ति

८४ शब्दापशब्दविवेके


३०८. लोके तन्मुखलोकनं न च भवेद् विद्वद्वरेभ्यः प्रियम् (करुणा० ६९)। ३०९. कान्तस्यास्यविधुं निरीक्षणपराम् (करुणा० १०३) । ३१०. काममायां जिज्ञासमानहृदयः (मोह० ६।१८)। ३११. त्वयि प्रपन्नाश्च विशुद्धशीला: (मोह० ८।२) ३१२. कथमहं त्यजेयं विपत् (मोह० ७।२०) । स्यात् । सपूर्वाच्चेति सूत्रे वृत्तौ कृतपूर्वी कटम् इत्युदाहृतौ यथा । अत्र व्यामूढः कविः । अन्यत्रास्यामेव कृतौ मोहध्वान्तमपचिकी- र्षणचण इति प्रयुञ्जानस्त्वसंमूढः । ३०८. विद्वद्वरेभ्य इत्यत्र चतुर्थी प्रदुष्यति । प्रिय इति कृत्प्रत्यया- न्तम् । प्रीणातीति प्रियः । कर्तरि कृत् । तद्योगे षष्ठी शिष्यते कर्तृकर्मणोः कृतीति । ३०९. आस्यविधुम् इत्यत्र द्वितीया नोपपत्तिमती भवति । निरीक्षण- परामिति बहुव्रीहिः । निरीक्षणं परं प्रधानं यस्यास्ताम् । एक- देशान्वये सत्यपि कृद्योगे षष्ठी स्यान्न द्वितीया। सर्वथा दुष्प्रयोग एवायम् । दोषपरीहाराय आस्यविधुनिरीक्षणपरामिति समा- सेन वक्तव्यम्, आस्यविधोनिरीक्षणे तत्पराम् इति वा व्यासेन । ३१०. काममायां जिज्ञासमान इत्येव निर्दुष्टो वाक्यन्यासः । यदि हृदय- शब्दप्रयोगेऽभिनिवेशस्तदा सप्तमी वैषयिकी प्रयोक्तव्या । जिज्ञा- समानहृदय इति जिज्ञासावद्धृदय इत्यनर्थान्तरम् । असामर्थ्येपि गमकत्वात्समासो देवदत्तस्य गुरुकुलमिति तु न शक्यमाश्रयितुम् । अत्र जिज्ञासा काममायाकर्मिका स्यादर्थान्तरकर्मिका वेति नैयत्यं नास्ति। ३११. त्वयि इति सप्तम्यस्थाने । प्रपद्यते: सकर्मकत्वात्त्वामिति वक्त- व्यम् । शिष्यस्तेहं शाधि मां त्वां प्रपन्नमित्यादिषु सर्वत्र द्वितीया- दर्शनाच्च। ३१२. विपदिति त्यजेयम् इत्यस्य कर्म । तेनानुक्ते कर्मणि द्वितीयैव साध्वी । तेन विपदमिति वक्तव्यम् । विपदिति स्त्रीलिङ्ग प्राति- पदिकम् ।