पृष्ठम्:शब्दापशब्दविवेकः.pdf/८९

विकिस्रोतः तः
एतत् पृष्ठम् परिष्कृतम् अस्ति

कारकविभक्त्यधिकार: ८३


३०१. तत्र च गृहस्थो वैदिकै: कर्मभिरधिक्रियते नेतरः (बौ० ध०. सू० २।६।११ इत्यत्र गोविन्दस्वामिकृतं विवरणम्) । ३०२. हा हतदैव ! केलिकदलीकन्दली मत्तकरिशुण्डावेष्टनं साह्यते । ३०३. कस्य बिभ्यति देवाश्च जातरोषस्य संयुगे (रा० १।१।४) । ३०४. अभियोगं कमेतस्य विरुद्धं मनुजस्य भोः । उपस्थापयथ---(३०।७) ३०५. मह्यं किन्त्वपवर्गसर्गसमये "दयस्व द्रुतम् (करुणा० १९) । ३०६. श्रुत्यन्तमुल्लङ्घकः (करुणा० ३९) । ३०७. राधे मज्जनुषां निषूदनचणः (कटाक्षः) (करुणा० ४२) । ३०१. वैदिकेषु कर्मस्विति वाच्यम् । तृतीयां प्रयुञ्जानः स्वामी तु व्यवहारमुच्चरते। ३०२. अण्यन्तावस्थायां केलिकदलीकन्दली (कर्त्री) मत्तकरिशुण्डावे- ष्टनं (कर्म) सहते इति वाक्यम् । ण्यन्तावस्थायां दैवं (प्रयोजकं कर्तृ) केलिकदलीकन्दल्या (अनुक्ते कर्तरि तृतीया) मत्तकरि- शुण्डावेष्टनं साहयति इति । कन्दल्याः प्रयोज्यकर्मता न । अविधेः । कर्मवाचिनि तिङिः देवेन केलिकदलीकन्दल्या मत्तकरिशुण्डा- वेष्टनं साह्यत इत्येवं रूपम् । अत्र वेष्टनमित्युक्ते कर्मणि प्रथमा । अयमेवावदात: प्रकारो वाचः, प्रकारान्तरं नास्ति । ३०३. भीत्रार्थानां भयहेतुरिति कस्मादिति तु पाणिनीयाः प्रयुयुक्षन्ते । ३०४. विरुध्यते स्मेति विरुद्धम् । भूते निष्ठा । कर्तृकमणोः कृतीति कृद्योगे कर्तरि षष्ठ्या: प्रसङ्गे न लोकाव्ययनिष्ठेत्यादिना शास्त्रेण निषेधेऽनुक्ते कर्तरि तृतीयया भाव्यम् । न चात्र नपुं- सके भाव क्तो येन शैषिकी षष्ठी सूपपन्ना स्यात् । ३०५. मह्यं दयस्वेत्यत्र चतुर्थ्या अप्रसङ्गः। दयतिः सकर्मकः । तेना- नुक्ते कर्मणि द्वितीया स्यात् । अधीगर्थदयेशां कर्मणीति कर्मणि शेषत्वेन विवक्षिते षष्ठी वा स्यात् । मां दयस्व मम वा दयस्वे- त्येवमेव शक्यं वक्तुम् । ३०६. श्रुत्यन्तम् इत्यत्र द्वितीया दुरुपपादा। कृद्योगलक्षणा षष्ठी प्राप्नोति न च सा ण्वुला कृता योगे निषिद्धा शास्त्रेण । तेन श्रुत्यन्तस्येत्येव साधु । ३१७. मुज्जनुषां निषूदनचणः । अत्र मज्जनुषामिति षष्ठी दुष्यति । कृद्योगे कर्मणि षष्ठीविधेः । तद्धितयोगे तु यथाप्राप्तं द्वितीया