पृष्ठम्:शब्दापशब्दविवेकः.pdf/८८

विकिस्रोतः तः
एतत् पृष्ठम् परिष्कृतम् अस्ति

८२ शब्दापशब्दविवेके


२९३. सा राज्ञा भार्याभावाय: प्रार्थिता। २९४. उन्नतेऽध्वनि । शरीराण्येव करभाः स्वानि भाराय मेनिरे (शि० भा० २०।३४) । २९५. 'येदिलस्या' पकाराय प्रतिजज्ञे प्रतापवान् (शि० भा०:१३।४)। २९६. आह्वायकान् भूमिपतेरयोध्यां व्यसर्जयत् (भट्टि २१४.३ ॥ २९७. तौ दम्पती त्रिःपरिणीय वह्निम् (कु० ५।८०)। २९८. प्राक् केकयीतो भरतस्ततोऽभूत् । (भट्टि० १।१४) । २९६. मुमूर्षूणां तु सर्वेषां यत्पथ्यं तन्न रोचते (रा० ३।५३।१७) । ३००. कथं चित्रगतो भर्ता मयाऽसूयितः (माल० ४) ।

२९३. सा राज्ञा भार्याभावं प्रार्थितेति साधु स्यात् । प्रार्थिता याचितेत्य नर्थान्तरम् । २९४. स्वस्मिन् भारबुद्धिरित्यनादरो गम्यत इति मन्यकर्मण्यनादरे विभाषाऽप्रारिणष्विति कर्मणि चतुर्थी साध्वी । २९५. अपकारं प्रतिजज्ञे' इत्येवं साधूकरणीयम् । प्रतिजानाति: सक- र्मकः । २९६. आह्वायक इति तुमुण्ण्वुलौ क्रियायां क्रियार्थायामित्यनेन ण्वुला व्युत्पादितः । आह्वास्यन्तीत्याह्वायका इति भविष्यत्यत्र ण्वुल् । अकेनोर्भविष्यदाधमर्ण्ययोरित्यनेन षष्ठीनिषेधे भूमिपतिम् इति द्वितीया प्रयोज्या । आश्चर्यं वैयाकरणो भट्टिरप्यत्र विषये प्रम- दिष्यति। २९७. पुरोधाः कर्ता । नयति द्विकर्मकः परिणयतिश्चापि । दम्पती इति प्रधानं कर्म । वह्निश्च गौणम् । श्रीरामायणेपि द्विकर्मकतया प्रयोगः परिणयते:--अगृह्णां यच्च ते पाणिमग्निं पर्यणयं च यत् (२।४२।८) । त्वामिति, शेषः । २९८. केकयीतः इत्यत्र तसिः सप्तस्यर्थे वेद्यः । जायमानं प्रति मातुरधि- करणता नियता, विभक्तयन्तरस्यादर्शनात् । २९९. रुच्यर्थानां प्रयोगे प्रीयमाणस्वार्थस्थ सम्प्रदानत्वे मुमूर्षुभ्य इत्येव निर्दुष्टं वचः। ३००. चित्रगताय भर्त्रे म्याऽसूयितम् इत्येवं परिवर्तनीयम् । क्रुधद्रुहे- त्यादिशास्त्रेण भर्तुः सम्प्रदानता स्थिता ।