पृष्ठम्:शब्दापशब्दविवेकः.pdf/८७

विकिस्रोतः तः
एतत् पृष्ठम् परिष्कृतम् अस्ति

कारकविभक्त्यधिकारः ८१


२८४. संस्कारैराचारा व्यवहाराश्च जायन्ते । २८५. श्रीमण्डनेन शाङ्करसम्प्रदायान्मनाविरुद्धोऽद्वैतमार्गानतिवर्तीं ब्रह्मसिद्धिरिति नाम्ना ग्रन्थोऽग्रन्थि । २८६. इमं माणवकं वासः परिधापयत (अथर्व० २।१३।२ भाष्ये सायणः)। २८७. उच्यतां शकटदासः--यथा परिधापिताः कुमारेणाभरणानि वयम् (मुद्रा० ५)। २८८. देवी साम्प्रतमेव मां परिणाययिष्यति तामेव चिरन्तनब्राह्मणीम् (विद्धशाल०)। २८९. कुमार्य इव कान्तस्य त्रस्यन्ति स्पृहयन्ति च । २६०. कौतूहलं मां प्रच्छयति । २९१. विश्वासमागतं सन्तं प्रायो द्रुह्यन्त्यसाधवः (का० नी० सा० ११। १५।३४)। २६२. इदं ज्ञेयमिदं ज्ञेयमिति यस्तृषितश्चरेत् । असौ कल्पसहस्रेषु नैव ज्ञानमवाप्नुयात् ।। २८४. अत्रापि पूर्वोक्तैव व्याक्रिया निराक्रिया च प्रत्येतव्या । २८५. शाङ्करसम्प्रदायेन मनाग् विरुद्ध इत्येव साधु । विरुद्ध इति कर्मणि क्तः । सम्प्रदायेनेत्यनुक्ते कर्तरि तृतीया वेद्या । २८६. अनेन माणवकेनेति तृतीया प्रयोज्या । शास्त्रेण धाञो ण्यन्तस्य द्विकर्मकता क्वचिदपि नोक्तेत्यसकृत्पुरस्तादवोचाम । २८७. उक्तं वक्तव्यं नेहाम्रेड्यते । २८८. नीवह्योर्नेति प्रतिषेधान्मया चिरन्तनब्राह्मणी परिणाययिष्य- तीति वक्तव्यम् । २८९. भीत्रार्थानां भयहेतुरिति अपादाने कान्तशब्दात्पञ्चमीष्यते । स्पृहेरीप्सित इति सूत्रेण च कान्तायेति युज्यते वक्तुम् । २६०. अविवक्षितकर्मा प्रच्छिरिहाकर्मकः । तेनाणौ कर्तुर्णौ कर्मत्वं सुस्थम् । २९१. विश्वासमागताय सते इत्येवं चतुर्थ्या वक्तव्यम् । हेतुरसकृदुक्त- चरः। २९२. कल्पसहस्रैरित्यपवर्गे तृतीया प्रयोक्तव्या। अपवर्गे तृतीया कारक- विभक्तिर्न ।