पृष्ठम्:शब्दापशब्दविवेकः.pdf/८६

विकिस्रोतः तः
एतत् पृष्ठम् परिष्कृतम् अस्ति

८० शब्दापशब्दविवेक


२७७. पुत्त्रदारस्य वाप्येनं शिरांसि स्पर्शयेत्पृथक् (मनु० ८।११४) । २७८. न द्रुह्येद् वंशमशकान् हिमवांस्तापसो भवेत् (बौ० ध० ३।३। ३।१९)। २७९. यथाकथंचिल्लोकोऽयं दिनान्येतानि यत्नतः । मयातिवाहितः सर्वो न च लोको व्यपद्यत (राज० २।३४) । २८०. सारेतरान्तरविचारचणान् प्रतीर्ष्यन्(अमरोद्घाटनोपक्रमे क्षीर- स्वामी)। २८१. न च स्निह्यति कस्यचित् (भट्टि० १८।१९)। २८२. वैरायते महद्भिश्च (भट्टि० १८।९) २८३. संस्कृत्या सभ्यता जायते इति केचित् । २७७. अण्यन्तावस्थायामेष पुत्त्रदारस्य शिरांसि स्पृशतीति वाक्यम् । स्पृशिर्गतिपूर्वके संश्लेषणे वर्तते । तेन गत्यर्थत्वाद् गत्यादिसूत्रेण णावेनमिति कर्मणि द्वितीयोपपन्ना भवति । पुत्त्राश्च दाराश्चेति पुत्त्रदारम् । सर्वोऽपि द्वन्द्वो विभाषेकवद्भवतीत्येकवद्भावः २७८, क्रुधद्रुहेर्ष्यादिसूत्रेण सम्प्रदानतायां दंशमशकेभ्य इति चतुर्थ्या भाव्यमिति पाणिनीयाः । २७९. दिनान्यतिवहेन्त्यतिक्रामन्ति । लोको दिनान्यतिवाहयति भूते लोको दिनान्यतिवाहितवान् । राजा लोकेन दिनान्यतिवाहित- वान् इति ण्यन्ताण्णौ वाक्यम् । मया (राज्ञा) लोकेन दिनान्यति- वाहितानीति स्यात् । अणौ कर्तुर्णौ कर्मत्वमुक्तं न तु णौ कर्तु- रिति लोकः प्रयोज्यं कर्म न भवति । २८०. सारेतरान्तरविचारचणेभ्य इति तु निर्दुष्टं स्यात् । क्रुधद्रुहोरे. वोपसृष्टयो: प्रयोगे यम्प्रति कोपस्तस्य कर्मत्वम् न तु प्रतीर्ष्यते- रपि। २८१. स्निह्यतिरकर्मकः । विषये सप्तमी वक्तव्या कस्मिंश्चिदिति । २८२. महद्भिरिति सहार्थे तृतीया व्याख्येया । वैषयिकेऽधिकरणे सप्तमी तु श्रेयसी स्यात् । २८३. 'संस्कृत्याः' इति जनिकर्तुः प्रकृतिरिति शास्त्रेणापादाने पञ्चमी साध्वी स्यात् । तृतीया तु न शास्त्रशिष्टिमनुपतति न च लौकिक व्यवहारम् ।