पृष्ठम्:शब्दापशब्दविवेकः.pdf/८५

विकिस्रोतः तः
एतत् पृष्ठम् परिष्कृतम् अस्ति

कारकवि भक्त्यधिकारः ७९


२७१. अवश्यंकारी कटस्य । २७२. देवतायतनस्य प्रदक्षिणं कुर्वन्ति प्रणताः । २७३. ग्रामं गन्तुमनसोऽपि वयं परवन्त इति प्रतिहतगतयः । २७४. तान्मन्त्रोपदेशं विधाययतिवराः क्षिप्रं प्रतिप्रतस्थिरे । २७५. न्यायाद्रिकूटमधिरूढगिरां गुरूणां चरणौ नमामि (श्रीकेशवदिग्- विजयसारे १०।५)। २७६. य उदास्ते दोषहान्यै प्रेक्षावत्सु न गण्यते । २७१. आवश्यकाधमर्ण्ययोर्णिनिरिति अवश्यंकारीत्यत्र णिनिः । अकेनो- भविष्यदाधमर्ण्ययोरिति निषेधस्य नायं विषयः । आवश्यकेऽत्र णिनिः, न भविष्यति । तेन कटस्येति षष्ठी साध्वी । २७२. देवतायतनं प्रदक्षिणं कुर्वन्तीत्येवं न्यसनीयम् । प्रदक्षिणमित्यव्य- यम् । अन्यत्रानव्ययं चापि । यदानव्ययं तेदा देवतायतनं प्रद- क्षिणी कुर्वन्तीति शोभनो न्यास: । षष्ठ्यास्तु नोभयत्र प्रसङ्गः । च्वेरभावे देवतायतनानि प्रदक्षिणानि कुर्वन्तीत्येवमपि शक्यं वक्तुम् । २७३. पदं हि पदान्तरेणान्वेति न तु तदेकदेशेन इति गन्तुमनस इत्ये- तदेकदेशेन गन्तुम् इत्यनेनानन्वयाग्रामम् इत्यत्रानुक्ते कर्मणि द्वितीयाऽयोगाद् ग्रामे गन्तुमनसः (गमनेच्छावन्तः) इति वैषयिके- ऽधिकरणे सप्तमी प्रयोगमर्हति । कवयसु एकदेशेनान्वयमभ्यु- पेत्य बहुलं द्वितीयां प्रयुञ्जाना दृष्टा:-मद्गोत्राङ्कं विरचित- पदं गेयमुद्गातुकामा (उत्तरमेधे)। २७४. तेषां मन्त्रोपदेशं विधायेति शैषिकी षष्ठी प्रयोज्या, तादर्थं वा तेभ्य इति चतुर्थी व्यवहार्या । द्वितीया तु कथमप्युपपत्तिमती न । २७५. अधिरूढगिराम् (अधिरूढा गीर्येषां तेषाम् कर्तरि क्तः) इत्येत- देकदेशेनाधिरूढशब्देनानन्वयानन्यायाद्रिकूटमित्यत्रानुक्ते कर्मणि द्वितीया न संभविनी । तेनान्वयाय सामर्थ्यलाभाय न्यायाद्रिकूटा- धिरूढगिरामित्येवं समासेन वक्तव्यम् । २७६. दोषहानाविति विषयसप्तम्या वक्तव्यम् ।