पृष्ठम्:शब्दापशब्दविवेकः.pdf/८४

विकिस्रोतः तः
एतत् पृष्ठम् परिष्कृतम् अस्ति

७८ शब्दापशब्दविवेके


२६४. न स्वदन्ते सुतृप्तस्य यथा प्रतिविषा रसाः (यो० वा० ४।३३।६८) । २६५. लोकायते शास्त्रे पदार्थान्नयते उपपत्तिभिः स्थिरीकृत्य शिष्येभ्यः प्रापयति (काशिका०१।३।३६) । २६६. बहुव्रीहिरिवान्यपदार्थप्रधानरर्थवादैर्नार्थ: । २६७. स्वामिस्त्वत्प्रसादेन उत्तीर्णोऽहं भवाब्धेः (यो० वा०६ (उत्तर०) २१६।२४) । २६८. नोद्विजन्ते स्वकार्येषु जना अध्यवसायिनः (यो० वा०६ (पूर्व) ८८।१९)। २६९. तस्माद् ब्राह्मणः पाण्डित्यं निर्विद्य बाल्येन तिष्ठासेत् (बृ० उ० ३।५।१)। २७०. यत्नयुक्तिविहीनस्य गोष्पदं दुस्तरं भवेत् (यो० वा० ५।७५।५३) । २६४. स्वदिरत्र रुच्यर्थक इति तत्प्रयोगे सुतृप्तस्य सम्प्रदानता सिद्धेति सुतृप्तायेति वक्तव्यम् । २६५. प्रापयत्यर्पयति ददातीत्यनर्थान्तरम्, तेन सम्प्रदानता सिद्धेति शिष्येभ्य इति चतुर्थी नातिशङ्कनीया । २६६. बहुव्रीहिणेवान्यपदार्थप्रधानैरिति वक्तव्यम् । उपमानोपमेययोः सामानाधिकरण्यात्। २६७. उत्तीर्णः=उद्गतः, निष्क्रान्तः । यथाऽभिषकोत्तीर्ण इत्यत्र । तेनापादाने पञ्चमी स्थाने । पारगमनेऽर्थे तु भवाम्बुधिम् इति स्यात् । तथा च पुरस्तादुक्तम् । २६८. विजिर्भयेर्थे वर्तते, तेन स्वकार्येभ्य इति पञ्चमी प्रयोक्तव्या । सम्मानाद् ब्राह्मणो नित्यमुद्विजेत विषादिवेति मनुवाक्ये यथा । २६९. निविद्येति निःपूर्वाद् विद्लृ लाभे इत्यस्य ल्यपि रूपम् । अव्यय- कृतो भाव इति ल्यब्भावे। तेन कर्मणोऽनुक्तत्वात् पाण्डित्य- मित्यत्र द्वितीया। २७०. दुस्तरमिति खल्प्रत्ययान्तम् । खलर्थैः प्रत्ययोगे षष्ठ्या निषे- धादनुक्ते कर्तरि तृतीयया भवितव्यम् । यत्नयुक्तिविहीनेनेति वाच्यम्।