कारकविभक्त्यधिकारः ७७
२५६. दापयेद् धनिकस्यार्थमधमर्णाद् विभावितम् (मनु० ८।४७) ।
२५७. यश्च वेदेषु देवेषु गोषु विप्रेषु साधुषु ।
धर्मे मयि च विद्वेष्टि स वै आशु विनश्यति (भा० पु०) ।।
२५८. विदेशात्प्रत्यागतं सुतं मुक्ताहारं धापयत्यम्बा ।
२५६. प्रणयादहीनमात्मनीनं तद्वचो निशम्य स परं प्राहृषत् ।
२६०. इन्द्रियारीनलं छित्त्वा तीर्णो भव भवार्णवात् (महोपनिषदि
५।८४)।
२६१. अस्य वचनस्य पूर्ववचनाद् विरोधो नाशङ्कनीयः ।
२६२. द्वेष्टि प्रायो गुणेभ्यो यत् (भट्टि० १८।९)।
२६३. स्वर्गतस्य च तस्य महात्मनः शाश्वतशान्तिलाभायेश्वरं प्रार्थया-
महे ।
२५६. ददातिकर्मणा सम्बन्धाद् धनिकशब्दाच्चतुर्थी प्राप्ता। सा त्व- पूर्णत्वात्सम्प्रदानस्य न कृता । इहोभयोः स्वत्वस्य भावादुभयोः स्वत्वस्याभावादपरिपूर्णो ददात्यर्थ इति मेधातिधिः । २५७. द्विषेः सकर्मकत्वात्सप्तम्यसाम्प्रतम् द्वितीयैव तु साम्प्रतम्। २५८. सुतेन मुक्ताहारं धापयतीत्येवं विपरिणमनीयम् । ण्यन्तस्य धाञ: प्रयोगेऽणो कर्तुर्णौ कर्मत्वं न क्वचिच्छिष्टम् । २५९. प्रणयेनाहीनम् इति तु वक्तव्यम् । अनुक्ते कर्तरि तृतीयया भाव्यम् । २६०. तरतिः प्लवनेऽकर्मकः, पारगमने तु सकर्मकः । तरति शोकं तरति ब्रह्महत्यां योऽश्वमेधेन यजत इत्यादिषु तथा दर्शनात् । तेन भवार्णवम् इति द्वितीयान्तं प्रयोक्तव्यम् । २६१. पूर्ववचनेनेति वक्तव्यम् । सहार्थे तृतीया व्याख्येया कर्तरि वा। विरोध इति घञन्तः । अस्य वचनस्येति कर्मणि षष्ठी। उभय- प्राप्तौ कर्मणीति नियमात् । पूर्ववचनमिदं वचनं विरुन्ध इत्य- र्थात् । २६२. द्विषिः सकर्मक इत्यसकृत् पूर्वमुक्तम् । चतुर्थ्या अप्रसङ्गात्तां विहाय गुणशब्दाद् द्वितीया व्यवहार्या । २६३. दुहियाच्यादीनां या द्विकर्मकता सार्थनिबन्धनेति अर्थयतेरपि द्विकर्मकत्वाच्छान्तिलाभम् इत्येवं शोभनं वचः स्यात् ।