७६ शब्दापशब्दविवेके
२४८. पालाने गृह्यते हस्ती वाजी वल्गासु गृह्यते (मृच्छ० १।५०) ।
२४९. दद्यात्कृष्णाजिनं पृष्ठे गां पुच्छे करिणं करे ।
केसरेषु तथैवाश्वं दासीं शिरसि दापयेत् ॥
२५०. समवायान्समवैति (पा० ४।४।४३) ।
२५१. द्रव्ये गुणा: समवयन्ति ।
२५२. न प्रमत्ताय भीताय विरथाय प्रयाचते ।
व्यसने वर्तमानाय प्रहरन्ति मनस्विनः ।।
२५३. वृत्तिं न दद्यात्तं प्रेत्य स्वमांसं खादयन्ति हि (भा० पु. १०।४५।६)।
२५४. भोजितं परमान्नेन संविष्टं कशिपौ सुखम् (भा० पु. १०।४६।१५) ।
२५५. कादम्बरी रसज्ञानामाहारोऽपि न रोचते ।
२४८. आलाने वल्गासु चेत्युभयत्र औपश्लेषिकेऽधिकरणे सप्तमी व्यव-
हारानुगता । गृहीत इव केशेषु मृत्युना धर्ममाचरेदित्यत्र यथा ।
अनुगृह्णाति चात्राधिकरणविवक्षां भगवान्सूत्रकारो यदाह तत्र
तेनेदमिति सरूपे (२।२।२६) ।
२४९. पृष्ठे इत्यादिषु पूर्वोक्तानुसारेणैवाधिकरण विवक्षा।
२५०. समवैति आगत्य तदेकदेशी भवतीत्यर्थः, तेनाधिकरणविवक्षा
युक्ता । अत्राह पदमञ्जरीकारः-गुरणभूतसमागमापेक्षया सम-
वायानिति द्वितीयानिर्देशः। लोके तु प्रायेण सप्तमी प्रयुज्यते
द्रव्ये गुणाः समवयन्तीति ।
२५१. इदं साधु । उक्तो हेतुः ।
२५२. प्रहरतिरत्र प्रासने उद्यमनेऽवगोरणे वा वर्तते । यथा इन्द्रो वृत्राय
वज्रं प्राहरद् (तां० ब्रा० १।४।५) इत्यत्र । तेन प्रमत्ताय इत्या-
दिषु क्रियार्थोपपदस्य च कर्मणि स्थानिन (२।३।१४) इति
शास्त्रेण चतुर्थी साध्वी। प्रमत्तादिकं हन्तं न प्रहरन्ति शस्त्रं
नोद्यच्छन्तीत्यर्थः । अस्त्रं वा न प्रास्यन्ति ।
२५३. आदिखाद्योर्नेति अणौ कर्तुः कर्मत्वनिषेधात् तेन स्वमांसं खाद-
यन्तीति वक्तव्यं कारकदुष्टिप्रहाणये ।
२५४. भोजयतिरत्र भोजनाद्वारके तर्पणे वर्तते । यथाऽऽशित इति
तृप्ति गतो गमितो वोच्यते । तस्मात्परमान्नेनेति करणे तृतीया
ऽनवद्या।
२५५. कादम्बरीरसज्ञेभ्य इति रुच्यर्थानां प्रीयमारण इति सम्प्रदाने
चतुर्थी साध्वी।