पृष्ठम्:शब्दापशब्दविवेकः.pdf/८१

विकिस्रोतः तः
एतत् पृष्ठम् परिष्कृतम् अस्ति

कारकविभक्त्यधिकारः ७५


२३९. पश्य कियता यत्नेन सशर्करेस्मिन्क्षेत्रे कृषति हलं कृषीवलः । २४०. पितरि शुश्रूषितव्यम् (भाष्ये)। २४१. आषाढस्य प्रथमे दले देहल्यामध्यविशद् धर्मसङ्धः । २४२. एते वयं सुधातिशायिनं कविसूक्तिरसं वाचकानास्वादयितु- मिच्छामः । २४३. प्रकामं विशदोयमर्थः । नात्र सन्देहो भवितुं शक्यः । २४४. नित्यं त्राता च हन्ता च धर्माधर्माश्रितान् नरान् । २४५. सहस्रमेतस्यां वाचि दद्मः (जनकोक्तिः)। २४६. कौसल्यातोतिरिक्तं च मम शुश्रूषते बहु (रा० २।४।१८) । २४७. खड्गी बाणी शरासनी स राजा प्रातस्तरामेवाखेटं निर्जगाम। - २३९. क्षेत्रं कृषति हलेनेति वक्तव्यम् । प्रचरद्भाषया हृतमना अन्यथा प्रयुक्ते। २४०. भाष्यकारप्रयोगात् कर्मणोऽधिकरणत्वविवक्षया पितरीत्यादि साधु। २४१. अधिपूर्वस्य विशेर्विरलः प्रयोगः । उपपूर्वस्तु प्रयोज्यः । देहल्यामि- त्यत्र सप्तम्यां न कश्चिद्दोषः । २४२. आस्वादयितुमित्यस्य पाययितुमित्यर्थ इति प्रत्यवसानार्थत्वाद् गत्यादिसूत्रेण वाचकानिति द्वितीया साध्वी। २४३. शक्य इति भावे कृत्यः । तेन सन्देहेन भवितुं शक्यमिति वक्त- व्यम् । भावश्च क्रिया, तेन नपुंसकत्वम् । २४४. त्राता हन्तेति च तृन्प्रत्ययान्ते पदे। तेन न लोकाव्ययेत्यादिना षष्ठीनिषेधाद् द्वितीया। २४५. एतस्यामिति निमित्ते१ सप्तमी साध्वी। इदमौपनिषदं वचः सहस्रं गा इत्यर्थः । २४६. ममेति कर्मणोऽविवक्षायां शेषे षष्ठी साध्वी। २४७. आखेटमुद्दिश्येति क्रियान्तराध्याहारेण समाधेयम् ।१. निमित्ते सप्तमीं व्यवहरंन्ति शिष्टा इति विषयेऽस्मत्कृती व्याकरणचन्द्रोदये प्रथमखण्डे कारकप्रकरणानुबन्धो द्रष्टव्यः ।